Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 90
Mahabharata · Adi Parva
जनमेजय उवाच
श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान्उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥१॥
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामतिप्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥२॥
एतामेव कथां दिव्यामा प्रजापतितो मनोःतेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥३॥
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥४॥
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥५॥
वैशंपायन उवाच
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम्प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥६॥
दक्षस्यादितिःअदितेर्विवस्वान्विवस्वतो मनुःमनोरिलाइलायाः पुरूरवाःपुरूरवस आयुःआयुषो नहुषःनहुषस्य ययातिः ॥७॥
ययातेर्द्वे भार्ये बभूवतुःउशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नामअत्रानुवंशो भवति ॥८॥
यदुं च तुर्वसुं चैव देवयानी व्यजायतद्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥९॥
तत्र यदोर्यादवाःपूरोः पौरवाः ॥१०॥
पूरोर्भार्या कौसल्या नामतस्यामस्य जज्ञे जनमेजयो नामयस्त्रीनश्वमेधानाजहारविश्वजिता चेष्ट्वा वनं प्रविवेश ॥११॥
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्तस्यामस्य जज्ञे प्राचिन्वान्यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्ततस्तस्य प्राचिन्वत्वम् ॥१२॥
प्राचिन्वान्खल्वश्मकीमुपयेमेतस्यामस्य जज्ञे संयातिः ॥१३॥
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमेतस्यामस्य जज्ञे अहंपातिः ॥१४॥
अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नामतस्यामस्य जज्ञे सार्वभौमः ॥१५॥
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नामतस्यामस्य जज्ञे जयत्सेनः ॥१६॥
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नामतस्यामस्य जज्ञे अराचीनः ॥१७॥
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नामतस्यामस्य जज्ञे महाभौमः ॥१८॥
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नामतस्यामस्य जज्ञे अयुतनायीयः पुरुषमेधानामयुतमानयत्तदस्यायुतनायित्वम् ॥१९॥
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नामतस्यामस्य जज्ञे अक्रोधनः ॥२०॥
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमेतस्यामस्य जज्ञे देवातिथिः ॥२१॥
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नामतस्यामस्य जज्ञे ऋचः ॥२२॥
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नामतस्यां पुत्रमजनयदृक्षम् ॥२३॥
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नामतस्यां पुत्रं मतिनारं नामोत्पादयामास ॥२४॥
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ॥२५॥
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामासतस्यां पुत्रमजनयत्तंसुं नाम ॥२६॥
तंसुं सरस्वती पुत्रं मतिनारादजीजनत्इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥२८॥
इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् ॥२९॥
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमेतस्यामस्य जज्ञे भरतःतत्र श्लोकौ भवतः ॥३०॥
माता भस्त्रा पितुः पुत्रो येन जातः स एव सःभरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥३१॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३२॥
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नामतस्यामस्य जज्ञे भुमन्युः ॥३४॥
भुमन्युः खलु दाशार्हीमुपयेमे जयां नामतस्यामस्य जज्ञे सुहोत्रः ॥३५॥
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नामतस्यामस्य जज्ञे हस्तीय इदं हास्तिनपुरं मापयामासएतदस्य हास्तिनपुरत्वम् ॥३६॥
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नामतस्यामस्य जज्ञे विकुण्ठनः ॥३७॥
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नामतस्यामस्य जज्ञेऽजमीढः ॥३८॥
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेतिपृथक्पृथग्वंशकरा नृपतयःतत्र वंशकरः संवरणः ॥३९॥
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमेतस्यामस्य जज्ञे कुरुः ॥४०॥
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नामतस्यामस्य जज्ञे विडूरथः ॥४१॥
विडूरथस्तु मागधीमुपयेमे संप्रियां नामतस्यामस्य जज्ञेऽरुग्वान्नाम ॥४२॥
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नामतस्यामस्य जज्ञे परिक्षित् ॥४३॥
परिक्षित्खलु बाहुदामुपयेमे सुयशां नामतस्यामस्य जज्ञे भीमसेनः ॥४४॥
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नामतस्यामस्य जज्ञे पर्यश्रवाःयमाहुः प्रतीपं नाम ॥४५॥
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नामतस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति ॥४६॥
देवापिः खलु बाल एवारण्यं प्रविवेशशंतनुस्तु महीपालोऽभवत्अत्रानुवंशो भवति ॥४७॥
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुतेपुनर्युवा च भवति तस्मात्तं शंतनुं विदुः ॥४८॥
शंतनुः खलु गङ्गां भागीरथीमुपयेमेतस्यामस्य जज्ञे देवव्रतःयमाहुर्भीष्म इति ॥५०॥
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम्यामाहुर्गन्धकालीति ॥५१॥
तस्यां कानीनो गर्भः पराशराद्द्वैपायनःतस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुःचित्राङ्गदो विचित्रवीर्यश्च ॥५२॥
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतःविचित्रवीर्यस्तु राजा समभवत् ॥५३॥
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे ॥५४॥
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः ॥५५॥
ततः सत्यवती चिन्तयामासदौःषन्तो वंश उच्छिद्यते इति ॥५६॥
सा द्वैपायनमृषिं चिन्तयामास ॥५७॥
स तस्याः पुरतः स्थितः किं करवाणीति ॥५८॥
सा तमुवाचभ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यःसाध्वपत्यं तस्योत्पादयेति ॥५९॥
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥६०॥
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य ॥६१॥
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति ॥६२॥
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने ॥६३॥
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान ॥६४॥
स बाणविद्ध उवाच पाण्डुम्चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति ॥६५॥
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये ॥६६॥
वाक्यं चोवाचस्वचापल्यादिदं प्राप्तवानहम्शृणोमि च नानपत्यस्य लोका सन्तीति ॥६७॥
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥६८॥
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति ॥६९॥
स तां हृष्टरूपः पाण्डुरुवाचइयं ते सपत्न्यनपत्यासाध्वस्यामपत्यमुत्पाद्यतामिति ॥७०॥
स एवमस्त्वित्युक्तः कुन्त्या ॥७१॥
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ ॥७२॥
माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे ॥७३॥
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः ॥७४॥
तत्रैनं चितास्थं माद्री समन्वारुरोह ॥७५॥
उवाच कुन्तीम्यमयोरार्ययाप्रमत्तया भवितव्यमिति ॥७६॥
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः ॥७७॥
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन ॥७८॥
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः ॥७९॥
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः ॥८०॥
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः ॥८१॥
पुत्रांश्चोत्पादयामासुःप्रतिविन्ध्यं युधिष्ठिरःसुतसोमं वृकोदरःश्रुतकीर्तिमर्जुनःशतानीकं नकुलःश्रुतकर्माणं सहदेव इति ॥८२॥
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभेतस्यां पुत्रं जनयामास यौधेयं नाम ॥८३॥
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्तस्यां पुत्रं सर्वगं नामोत्पादयामास ॥८४॥
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत्तस्यां पुत्रमभिमन्युं नाम जनयामास ॥८५॥
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्तस्यां पुत्रं निरमित्रं नामाजनयत् ॥८६॥
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमेतस्यां पुत्रमजनयत्सुहोत्रं नाम ॥८७॥
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास ॥८८॥
इत्येते एकादश पाण्डवानां पुत्राः ॥८९॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमेतस्यामस्य परासुर्गर्भोऽजायत ॥९०॥
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्यषाण्मासिकं गर्भमहमेनं जीवयिष्यामीति ॥९१॥
संजीवयित्वा चैनमुवाचपरिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति ॥९२॥
परिक्षित्तु खलु माद्रवतीं नामोपयेमेतस्यामस्य जनमेजयः ॥९३॥
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च ॥९४॥
शतानीकस्तु खलु वैदेहीमुपयेमेतस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥९५॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितःपूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥९६॥
End of chapter ॥
1

0
Adhyaya 90Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0