Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 93
Mahabharata · Adi Parva
शंतनुरुवाचआपवो नाम को न्वेष वसूनां किं च दुष्कृतम्यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१॥
अनेन च कुमारेण गङ्गादत्तेन किं कृतम्यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥२॥
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम्मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥३॥
वैशंपायन उवाच
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत्भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् ॥४॥
यं लेभे वरुणः पुत्रं पुरा भरतसत्तमवसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥५॥
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम्मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥६॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तमवने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥७॥
दक्षस्य दुहिता या तु सुरभीत्यतिगर्वितागां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥८॥
अनुग्रहार्थं जगतः सर्वकामदुघां वराम्तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥९॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेवितेचचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१०॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभपृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥११॥
ते सदारा वनं तच्च व्यचरन्त समन्ततःरेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रमसा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमाया सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१३॥
सा विस्मयसमाविष्टा शीलद्रविणसंपदादिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१४॥
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम्उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१५॥
एवंगुणसमायुक्तां वसवे वसुनन्दिनीदर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१६॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रमउवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१७॥
एषा गौरुत्तमा देवि वारुणेरसितेक्षणेऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१८॥
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमेदश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१९॥
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमातमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥२०॥
अस्ति मे मानुषे लोके नरदेवात्मजा सखीनाम्ना जिनवती नाम रूपयौवनशालिनी ॥२१॥
उशीनरस्य राजर्षेः सत्यसंधस्य धीमतःदुहिता प्रथिता लोके मानुषे रूपसंपदा ॥२२॥
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥२३॥
यावदस्याः पयः पीत्वा सा सखी मम मानदमानुषेषु भवत्वेका जरारोगविवर्जिता ॥२४॥
एतन्मम महाभाग कर्तुमर्हस्यनिन्दितप्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ॥२५॥
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षयापृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥२६॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृपऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम्हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥२७॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिःन चापश्यत गां तत्र सवत्सां काननोत्तमे ॥२८॥
ततः स मृगयामास वने तस्मिंस्तपोधनःनाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥२९॥
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनःययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥३०॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमःवशं कोपस्य संप्राप्त आपवो भरतर्षभ ॥३२॥
शप्त्वा च तान्महाभागस्तपस्येव मनो दधेएवं स शप्तवान्राजन्वसूनष्टौ तपोधनःमहाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥३३॥
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनःशप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥३४॥
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभन लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात्आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥
उवाच च स धर्मात्मा सप्त यूयं धरादयःअनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥३६॥
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यतिद्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥३७॥
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम्न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥३८॥
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदःपितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यतिएवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥३९॥
ततो मामुपजग्मुस्ते समस्ता वसवस्तदाअयाचन्त च मां राजन्वरं स च मया कृतःजाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥४०॥
एवं तेषामहं सम्यक्शप्तानां राजसत्तममोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥४१॥
अयं शापादृषेस्तस्य एक एव नृपोत्तमद्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥४२॥
एतदाख्याय सा देवी तत्रैवान्तरधीयतआदाय च कुमारं तं जगामाथ यथेप्सितम् ॥४३॥
स तु देवव्रतो नाम गाङ्गेय इति चाभवत्द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः ॥४४॥
शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततःतस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् ॥४५॥
महाभाग्यं च नृपतेर्भारतस्य यशस्विनःयस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥४६॥
End of chapter ॥
1

0
Adhyaya 93Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0