Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Adi Parva
॥ श्रीः ॥
Adhyaya 96
Mahabharata · Adi Parva
वैशंपायन उवाच
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघपालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥१॥
संप्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम्भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥२॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाःशुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥३॥
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत्जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥४॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः ॥५॥
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशःभीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥६॥
उवाच च महीपालान्राजञ्जलदनिःस्वनःरथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥७॥
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैःअलंकृत्य यथाशक्ति प्रदाय च धनान्यपि ॥८॥
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपिवित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥९॥
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दतेअष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥१०॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति चप्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥११॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितःते यतध्वं परं शक्त्या विजयायेतराय वास्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥१२॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम्आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥१३॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताःसंस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥१४॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् ॥१५॥
ताराणामिव संपातो बभूव जनमेजयभूषणानां च शुभ्राणां कवचानां च सर्वशः ॥१६॥
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततःसक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥१७॥
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान्रथानास्थाय ते वीराः सर्वप्रहरणान्विताःप्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥१८॥
ततः समभवद्युद्धं तेषां तस्य च भारतएकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥१९॥
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन्अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥२०॥
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन्ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥२१॥
स तद्बाणमयं वर्षं शरैरावार्य सर्वतःततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥२२॥
तस्याति पुरुषानन्याँल्लाघवं रथचारिणःरक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् ॥२३॥
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदःकन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥२४॥
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथःअभ्याहनदमेयात्मा भीष्मं शांतनवं रणे ॥२५॥
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथावाशितामनुसंप्राप्तो यूथपो बलिनां वरः ॥२६॥
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवःशाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥२७॥
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनःतद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥२८॥
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमःनिवर्तयामास रथं शाल्वं प्रति महारथः ॥२९॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव तेप्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥३०॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरेअन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥३१॥
ततो भीष्मं शांतनवं शरैः शतसहस्रशःशाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥३२॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाःविस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥३३॥
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाःअपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥३४॥
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयःक्रुद्धः शांतनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥३५॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवःयावदेनं निहन्म्यद्य भुजंगमिव पक्षिराट् ॥३६॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवःतेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥३७॥
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवःभीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥३८॥
कन्याहेतोर्नरश्रेष्ठ भीष्मः शांतनवस्तदाजित्वा विसर्जयामास जीवन्तं नृपसत्तमम्ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥३९॥
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवःस्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजय ॥४०॥
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरःप्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥४१॥
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिपवनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥४२॥
अक्षतः क्षपयित्वारीन्संख्येऽसंख्येयविक्रमःआनयामास काश्यस्य सुताः सागरगासुतः ॥४३॥
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाःयथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥४४॥
ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसेभीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥४५॥
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमेसत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥४६॥
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुताज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥४७॥
मया सौभपतिः पूर्वं मनसाभिवृतः पतिःतेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥४८॥
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरेएतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥४९॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदिचिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥५०॥
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैःअनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥५१॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसेभीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥५२॥
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितःविचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥५३॥
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजेरक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥५४॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थितेविचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥५५॥
स चाश्विरूपसदृशो देवसत्त्वपराक्रमःसर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥५६॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिःविचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥५७॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैःजगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥५८॥
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत्राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितःऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुंगवैः ॥५९॥
End of chapter ॥
1

0
Adhyaya 96Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0