Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sauptika Parva
कृप उवाच
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियःनालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥१॥
तथैव तावन्मेधावी विनयं यो न शिक्षतिन च किंचन जानाति सोऽपि धर्मार्थनिश्चयम् ॥२॥
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियःजानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥३॥
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषःदिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ॥४॥
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥५॥
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यतेतथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥६॥
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम्प्राज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः ॥७॥
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मनाकुरु मे वचनं तात येन पश्चान्न तप्यसे ॥८॥
न वधः पूज्यते लोके सुप्तानामिह धर्मतःतथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥९॥
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताःविमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥१०॥
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभोविश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥११॥
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुःव्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ॥१२॥
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतःन च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥१३॥
त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौप्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥१४॥
असंभावितरूपं हि त्वयि कर्म विगर्हितम्शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥१५॥
अश्वत्थामोवाचएवमेतद्यथात्थ त्वमनुशास्मीह मातुलतैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ॥१६॥
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौन्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥१७॥
कर्णश्च पतिते चक्रे रथस्य रथिनां वरःउत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ॥१८॥
तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधःशिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥१९॥
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणेक्रोशतां भूमिपालानां युयुधानेन पातितः ॥२०॥
दुर्योधनश्च भीमेन समेत्य गदया मृधेपश्यतां भूमिपालानामधर्मेण निपातितः ॥२१॥
एकाकी बहुभिस्तत्र परिवार्य महारथैःअधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥२२॥
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतःवार्त्तिकानां कथयतां स मे मर्माणि कृन्तति ॥२३॥
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवःतानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥२४॥
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिकेकामं कीटः पतंगो वा जन्म प्राप्य भवामि वै ॥२५॥
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥२६॥
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यतियो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥२७॥
संजय उवाच
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ॥२८॥
तमब्रूतां महात्मानौ भोजशारद्वतावुभौकिमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥२९॥
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभसमदुःखसुखौ चैव नावां शङ्कितुमर्हसि ॥३०॥
अश्वत्थामा तु संक्रुद्धः पितुर्वधमनुस्मरन्ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ॥३१॥
हत्वा शतसहस्राणि योधानां निशितैः शरैःन्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥३२॥
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वैपुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥३३॥
कथं च निहतः पापः पाञ्चालः पशुवन्मयाशस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ॥३४॥
क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौसमास्थाय प्रतीक्षेतां रथवर्यौ परंतपौ ॥३५॥
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥३६॥
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयःहूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥३७॥
ययुश्च शिबिरं तेषां संप्रसुप्तजनं विभोद्वारदेशं तु संप्राप्य द्रौणिस्तस्थौ रथोत्तमे ॥३८॥
End of chapter ॥
1
Mahabharata · Sauptika Parva

Adhyaya 5

0
Adhyaya 5Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0