Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Sauptika Parva
धृतराष्ट्र उवाच
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौअकुर्वतां भोजकृपौ किं संजय वदस्व मे ॥१॥
संजय उवाच
कृतवर्माणमामन्त्र्य कृपं च स महारथम्द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥२॥
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ॥३॥
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥४॥
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैःबद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥५॥
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम्नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥६॥
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वासर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥७॥
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशःतेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥८॥
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराःप्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥९॥
तदत्यद्भुतमालोक्य भूतं लोकभयंकरम्द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥१०॥
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत्उदधेरिव वार्योघान्पावको वडवामुखः ॥११॥
अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान्रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥१२॥
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यतयुगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥१३॥
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम्कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥१४॥
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदास तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥१५॥
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥१६॥
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततःअपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥१७॥
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधःअब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन् ॥१८॥
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यःस शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ॥१९॥
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसतिस पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ॥२०॥
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथावृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥२१॥
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत्इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥२२॥
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्अमार्गेणैवमारभ्य घोरामापदमागतः ॥२३॥
तां चापदं घोरतरां प्रवदन्ति मनीषिणःयदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥२४॥
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिहन हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ॥२५॥
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यतिस पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥२६॥
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणःयदारभ्य क्रियां कांचिद्भयादिह निवर्तते ॥२७॥
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्न हि द्रोणसुतः संख्ये निवर्तेत कथंचन ॥२८॥
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥२९॥
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिःतस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ॥३०॥
तदिदं दैवविहितं मम संख्ये निवर्तनम्नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन ॥३१॥
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम्दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥३२॥
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम्कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥३३॥
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण चतस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥३४॥
End of chapter ॥
1
Mahabharata · Sauptika Parva

Adhyaya 6

0
Adhyaya 6Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0