Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Stri Parva
॥ श्रीः ॥
Adhyaya 26
Mahabharata · Stri Parva
वासुदेव उवाच
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाःतवैव ह्यपराधेन कुरवो निधनं गताः ॥१॥
या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥२॥
निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम्कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥३॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचतिदुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥४॥
तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरंगीशूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री ॥५॥
वैशंपायन उवाच
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥६॥
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमःपर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ॥७॥
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डवहतानां यदि जानीषे परिमाणं वदस्व मे ॥८॥
युधिष्ठिर उवाच
दशायुतानामयुतं सहस्राणि च विंशतिःकोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ॥९॥
अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दशदश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ॥१०॥
धृतराष्ट्र उवाच
युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाःआचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥११॥
युधिष्ठिर उवाच
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगेदेवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥१२॥
ये त्वहृष्टेन मनसा मर्तव्यमिति भारतयुध्यमाना हताः संख्ये ते गन्धर्वैः समागताः ॥१३॥
ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाःशस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥१४॥
पीड्यमानाः परैर्ये तु हीयमाना निरायुधाःह्रीनिषेधा महात्मानः परानभिमुखा रणे ॥१५॥
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाःगतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः ॥१६॥
ये तत्र निहता राजन्नन्तरायोधनं प्रतियथा कथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून् ॥१७॥
धृतराष्ट्र उवाच
केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥१८॥
युधिष्ठिर उवाच
निदेशाद्भवतः पूर्वं वने विचरता मयातीर्थयात्राप्रसङ्गेन संप्राप्तोऽयमनुग्रहः ॥१९॥
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥२०॥
धृतराष्ट्र उवाच
येऽत्रानाथा जनस्यास्य सनाथा ये च भारतकच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥२१॥
न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयःवयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः ॥२२॥
यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततःतेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ॥२३॥
वैशंपायन उवाच
एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरःआदिदेश सुधर्माणं धौम्यं सूतं च संजयम् ॥२४॥
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ॥२५॥
भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशःयथा चानाथवत्किंचिच्छरीरं न विनश्यति ॥२६॥
शासनाद्धर्मराजस्य क्षत्ता सूतश्च संजयःसुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥२७॥
चन्दनागुरुकाष्ठानि तथा कालीयकान्युतघृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥२८॥
समाहृत्य महार्हाणि दारूणां चैव संचयान्रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥२९॥
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥३०॥
दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान्शल्यं शलं च राजानं भूरिश्रवसमेव च ॥३१॥
जयद्रथं च राजानमभिमन्युं च भारतदौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥३२॥
बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान्राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥३३॥
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥३४॥
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥३५॥
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥३६॥
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव चअलम्बुसं च राजानं जलसंधं च पार्थिवम् ॥३७॥
अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशःघृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ॥३८॥
पितृमेधाश्च केषांचिदवर्तन्त महात्मनाम्सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ॥३९॥
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैःकश्मलं सर्वभूतानां निशायां समपद्यत ॥४०॥
ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाःनभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥४१॥
ये चाप्यनाथास्तत्रासन्नानादेशसमागताःतांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ॥४२॥
चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैःदाहयामास विदुरो धर्मराजस्य शासनात् ॥४३॥
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरःधृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥४४॥
End of chapter ॥
1

0
Adhyaya 26Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0