Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Stri Parva
॥ श्रीः ॥
Adhyaya 8
Mahabharata · Stri Parva
वैशंपायन उवाच
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमःपुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः ॥१॥
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाःकृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥२॥
संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताःजलेन सुखशीतेन तालवृन्तैश्च भारत ॥३॥
पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतःअन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ॥४॥
अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिःविललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥५॥
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्यतोमूलानि दुःखानि संभवन्ति मुहुर्मुहुः ॥६॥
पुत्रनाशेऽर्थनाशे च ज्ञातिसंबन्धिनामपिप्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥७॥
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यतियेनाभिभूतः पुरुषो मरणं बहु मन्यते ॥८॥
तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ॥९॥
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतःअभूच्च तूष्णीं राजासौ ध्यायमानो महीपते ॥१०॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुःपुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत् ॥११॥
धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणुश्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ॥१२॥
न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतपअनित्यतां हि मर्त्यानां विजानासि न संशयः ॥१३॥
अध्रुवे जीवलोके च स्थाने वाशाश्वते सतिजीविते मरणान्ते च कस्माच्छोचसि भारत ॥१४॥
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवःपुत्रं ते कारणं कृत्वा कालयोगेन कारितः ॥१५॥
अवश्यं भवितव्ये च कुरूणां वैशसे नृपकस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥१६॥
जानता च महाबाहो विदुरेण महात्मनायतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥१७॥
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्घटतापि चिरं कालं नियन्तुमिति मे मतिः ॥१८॥
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ॥१९॥
पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमःअपश्यं तत्र च तदा समवेतान्दिवौकसःनारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ॥२०॥
तत्र चापि मया दृष्टा पृथिवी पृथिवीपतेकार्यार्थमुपसंप्राप्ता देवतानां समीपतः ॥२१॥
उपगम्य तदा धात्री देवानाह समागतान्यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदाप्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥२२॥
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतःउवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ॥२३॥
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वैदुर्योधन इति ख्यातः स ते कार्यं करिष्यतितं च प्राप्य महीपालं कृतकृत्या भविष्यसि ॥२४॥
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताःअन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ॥२५॥
ततस्ते भविता देवि भारस्य युधि नाशनम्गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ॥२६॥
स एष ते सुतो राजँल्लोकसंहारकारणात्कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ॥२७॥
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनःदैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ॥२८॥
शकुनिर्मातुलश्चैव कर्णश्च परमः सखासमुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाःएतमर्थं महाबाहो नारदो वेद तत्त्वतः ॥२९॥
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपतेमा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥३०॥
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारतपुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥३१॥
नारदेन च भद्रं ते पूर्वमेव न संशयःयुधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥३२॥
पाण्डवाः कौरवाश्चैव समासाद्य परस्परम्न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥३३॥
नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाःएतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥३४॥
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभोस्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥३५॥
एष चार्थो महाबाहो पूर्वमेव मया श्रुतःकथितो धर्मराजस्य राजसूये क्रतूत्तमे ॥३६॥
यतितं धर्मपुत्रेण मया गुह्ये निवेदितेअविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥३७॥
अनतिक्रमणीयो हि विधी राजन्कथंचनकृतान्तस्य हि भूतेन स्थावरेण त्रसेन च ॥३८॥
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारतमुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥३९॥
त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुःज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥४०॥
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपिस कथं त्वयि राजेन्द्र कृपां वै न करिष्यति ॥४१॥
मम चैव नियोगेन विधेश्चाप्यनिवर्तनात्पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥४२॥
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यतिधर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥४३॥
पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथाप्रज्ञाम्भसा महाराज निर्वापय सदा सदा ॥४४॥
एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसःमुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत ॥४५॥
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तमनात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥४६॥
इदं तु वचनं श्रुत्वा तव दैवनियोगजम्धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ॥४७॥
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतःधृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥४८॥
End of chapter ॥
1

0
Adhyaya 8Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0