Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनःदीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥१॥
तस्य काल्यं गता भार्या चरितुं नाभ्यवर्ततप्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥२॥
वातवर्षं महच्चासीन्न चागच्छति मे प्रियाकिं नु तत्कारणं येन साद्यापि न निवर्तते ॥३॥
अपि स्वस्ति भवेत्तस्याः प्रियाया मम काननेतया विरहितं हीदं शून्यमद्य गृहं मम ॥४॥
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वराअद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥५॥
पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसीसा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ॥६॥
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रतायस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ॥७॥
भार्या हि परमो नाथः पुरुषस्येह पठ्यतेअसहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥८॥
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य चनास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ॥९॥
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिःनास्ति भार्यासमो लोके सहायो धर्मसाधनः ॥१०॥
एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वैगृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् ॥११॥
न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यतिअग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः ॥१२॥
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदाकपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ॥१३॥
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथाशरणागतसंत्राता भव कान्त विशेषतः ॥१४॥
एष शाकुनिकः शेते तव वासं समाश्रितःशीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥१५॥
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥१६॥
यास्माकं विहिता वृत्तिः कापोती जातिधर्मतःसा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ॥१७॥
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्ततेस प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥१८॥
स त्वं संतानवानद्य पुत्रवानपि च द्विजतत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वैपूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥१९॥
इति सा शकुनी वाक्यं क्षारकस्था तपस्विनीअतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत ॥२०॥
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥२१॥
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणापूजयामास यत्नेन स पक्षी पक्षिजीविनम् ॥२२॥
उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम्संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥२३॥
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसिप्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥२४॥
शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतःपञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥२५॥
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमीतस्य नायं न च परो लोको भवति धर्मतः ॥२६॥
तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसितत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥२७॥
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्बाधते खलु मा शीतं हिमत्राणं विधीयताम् ॥२८॥
एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतलेयथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥२९॥
स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत्ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् ॥३०॥
सुसंदीप्तं महत्कृत्वा तमाह शरणागतम्प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥३१॥
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥३२॥
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः ॥३३॥
न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम्उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥३४॥
संचयो नास्ति चास्माकं मुनीनामिव काननेइत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥३५॥
कथं नु खलु कर्तव्यमिति चिन्तापरः सदाबभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥३६॥
मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातकम्उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥३७॥
इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम्हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥३८॥
देवानां च मुनीनां च पितॄणां च महात्मनाम्श्रुतपूर्वो मया धर्मो महानतिथिपूजने ॥३९॥
कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि तेनिश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥४०॥
ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निवतमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ॥४१॥
अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम्चिन्तयामास मनसा किमिदं नु कृतं मया ॥४२॥
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणाअधर्मः सुमहान्घोरो भविष्यति न संशयः ॥४३॥
एवं बहुविधं भूरि विललाप स लुब्धकःगर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥४४॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 142

0
Adhyaya 142Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0