Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयःगर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् ॥१॥
धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादयेसर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः ॥२॥
स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनःप्राप्तं नूनं मया घोरं भयं वैवस्वतादपि ॥३॥
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्सर्वमन्यून्विनीय त्वमभि मा वद शौनक ॥४॥
महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनःअस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥५॥
न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हतिश्रुतीरलभमानानां संविदं वेदनिश्चयात् ॥६॥
निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम्भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव ॥७॥
अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इवन ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन ॥८॥
अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितःब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक ॥९॥
शौनक उवाच
किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम्इति वै पण्डितो भूत्वा भूतानां नोपतप्यति ॥१०॥
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति ॥११॥
न चोपलभते तत्र न च कार्याणि पश्यतिनिर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥१२॥
विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमेकुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते ॥१३॥
तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम्अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि ॥१४॥
जनमेजय उवाच
अनुतप्ये च पापेन न चाधर्मं चराम्यहम्बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक ॥१५॥
शौनक उवाच
छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृपसर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर ॥१६॥
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वयेतां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह ॥१७॥
सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वयेक्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् ॥१८॥
वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाःवाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् ॥१९॥
केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम्जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत ॥२०॥
यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरुप्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥२१॥
जनमेजय उवाच
नैव वाचा न मनसा न पुनर्जातु कर्मणाद्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥२२॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 147

0
Adhyaya 147Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0