Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भृगुरुवाचवानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्तित्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति ॥१॥
यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत्स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥२॥
परिव्राजकानां पुनराचारस्तद्यथाविमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाःप्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥३॥
भवति चात्र श्लोकःअभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिःन तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥४॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोतियो भैक्षचर्योपगतैर्हविर्भि;श्चिताग्निनां स व्यतियाति लोकान् ॥५॥
मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसंकल्पितबुद्धियुक्तःअनिन्धनं ज्योतिरिव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः ॥६॥
भरद्वाज उवाच
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यतेतमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥७॥
भृगुरुवाचउत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्वितेपुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते ॥८॥
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाःलोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥९॥
स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाःकाले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥१०॥
न लोभः परदारेषु स्वदारनिरतो जनःन चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयःपरोक्षधर्मो नैवास्ति संदेहो नापि जायते ॥११॥
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यतेशय्यायानासनोपेताः प्रासादभवनाश्रयाःसर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥१२॥
प्राणधारणमात्रं तु केषांचिदुपपद्यतेश्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥१३॥
इह धर्मपराः केचित्केचिन्नैकृतिका नराःसुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥१४॥
इह श्रमो भयं मोहः क्षुधा तीव्रा च जायतेलोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः ॥१५॥
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणःयस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥१६॥
सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयतापरोपघातो हिंसा च पैशुन्यमनृतं तथा ॥१७॥
एतानासेवते यस्तु तपस्तस्य प्रहीयतेयस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते ॥१८॥
कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम्शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा ॥१९॥
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथाइष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ॥२०॥
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभःइहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥२१॥
असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरेक्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले ॥२२॥
अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताःइहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् ॥२३॥
ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणःपन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥२४॥
इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितःधर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥२५॥
भीष्म उवाच
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान्भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥२६॥
एष ते प्रभवो राजञ्जगतः संप्रकीर्तितःनिखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥२७॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 185

0
Adhyaya 185Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0