Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
स एवमुक्तस्तु मुनिर्नारदो वदतां वरःकथयामास तत्सर्वं यथा शप्तः स सूतजः ॥१॥
एवमेतन्महाबाहो यथा वदसि भारतन कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे ॥२॥
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृपतन्निबोध महाराज यथा वृत्तमिदं पुरा ॥३॥
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभोसंघर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ॥४॥
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतःचकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥५॥
स बलं भीमसेनस्य फल्गुनस्य च लाघवम्बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥६॥
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनःप्रजानामनुरागं च चिन्तयानो व्यदह्यत ॥७॥
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वैयुष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ॥८॥
विद्याधिकमथालक्ष्य धनुर्वेदे धनंजयम्द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥९॥
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम्अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥१०॥
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम्त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ॥११॥
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रतिदौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ॥१२॥
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतःक्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन ॥१३॥
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य चजगाम सहसा रामं महेन्द्रं पर्वतं प्रति ॥१४॥
स तु राममुपागम्य शिरसाभिप्रणम्य चब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ॥१५॥
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशःउष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥१६॥
तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमेगन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥१७॥
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधिप्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ॥१८॥
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिकेएकः खड्गधनुष्पाणिः परिचक्राम सूतजः ॥१९॥
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनःजघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥२०॥
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत्कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥२१॥
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तवमया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥२२॥
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निवदुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ॥२३॥
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम्युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥२४॥
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसःपातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥२५॥
यथेयं गौर्हता मूढ प्रमत्तेन त्वया ममप्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ॥२६॥
ततः प्रसादयामास पुनस्तं द्विजसत्तमम्गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥२७॥
नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषागच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ॥२८॥
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखःराममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥२९॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 2

0
Adhyaya 2Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0