Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
के पूर्वमासन्पतयः प्रजानां भरतर्षभके चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥१॥
भीष्म उवाच
श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसिप्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः ॥२॥
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनःब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः ॥३॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुःवसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा ॥४॥
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतःअत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥५॥
अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनःप्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥६॥
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिःतस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥७॥
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुतेअरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः ॥८॥
अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान्सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥९॥
अर्यमा चैव भगवान्ये चान्ये तनया विभोएते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥१०॥
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युतएकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥११॥
एवं शतसहस्राणां शतं तस्य महात्मनःपुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥१२॥
प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम्स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः ॥१३॥
एते प्रजानां पतयः समुद्दिष्टा यशस्विनःअतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥१४॥
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथासविता चैव धाता च विवस्वांश्च महाबलः ॥१५॥
पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यतेत एते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥१६॥
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपिमार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥१७॥
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाःअजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥१८॥
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरःसावित्रश्च जयन्तश्च पिनाकी चापराजितःपूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥१९॥
एत एवंविधा देवा मनोरेव प्रजापतेःते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः ॥२०॥
शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोःऋभवो मरुतश्चैव देवानां चोदिता गणाः ॥२१॥
एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौआदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा ॥२२॥
अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौस्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयःइत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥२३॥
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत्स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥२४॥
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसूऔशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः ॥२५॥
ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथात्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥२६॥
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥२७॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् ॥२८॥
रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान्एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥२९॥
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुःएते नव महात्मानः पश्चिमामाश्रिता दिशम् ॥३०॥
आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिःगौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः ॥३१॥
तथैव पुत्रो भगवानृचीकस्य महात्मनःजमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः ॥३२॥
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसःसाक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥३३॥
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशःएतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते ॥३४॥
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतःमुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् ॥३५॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 201

0
Adhyaya 201Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0