Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत्विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् ॥१॥
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम्जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् ॥२॥
क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम्विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ॥३॥
ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतःक्षत्रियाणां च विहितं संग्रामे निधनं विभो ॥४॥
क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतःवधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ॥५॥
ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतःप्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् ॥६॥
न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वरक्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ॥७॥
स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभराजा मनीषी निपुणो लोके दृष्टपरावरः ॥८॥
त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणिक्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् ॥९॥
जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम्विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ॥१०॥
इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत्ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ॥११॥
तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पतेतेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् ॥१२॥
स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैःयथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ॥१३॥
मा त्वमेवंगते किंचित्क्षत्रियर्षभ शोचिथाःगतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ॥१४॥
भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभदिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ॥१५॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 22

0
Adhyaya 22Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0