Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
व्यास उवाच
गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालंकारांश्चाप्नुयात्तस्य तस्यमानं च कीर्तिं च यशश्च नेच्छे;त्स वै प्रचारः पश्यतो ब्राह्मणस्य ॥१॥
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान्ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः ॥२॥
ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित्नाकामो म्रियते जातु न तेन न च ब्राह्मणः ॥३॥
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान्नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथंचन ॥४॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यतियदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥५॥
यदा न कुरुते भावं सर्वभूतेषु पापकम्कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥६॥
कामबन्धनमेवैकं नान्यदस्तीह बन्धनम्कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥७॥
कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाःविरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥८॥
आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत्स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही ॥९॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमःदमस्योपनिषद्दानं दानस्योपनिषत्तपः ॥१०॥
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम्सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः ॥११॥
क्लेदनं शोकमनसोः संतापं तृष्णया सहसत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम् ॥१२॥
विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमःषड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥१३॥
षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिःये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः ॥१४॥
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते ॥१५॥
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतःयामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा ॥१६॥
येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान्येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥१७॥
संगोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन्यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥१८॥
समाहितं परे तत्त्वे क्षीणकाममवस्थितम्सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ॥१९॥
सविशेषाणि भूतानि गुणांश्चाभजतो मुनेःसुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥२०॥
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ॥२१॥
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठतेइन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥२२॥
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम् ॥२३॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 243

0
Adhyaya 243Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0