महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 261
महाभारत · शान्ति पर्व
कपिल उवाच
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाःनैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥१॥
निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाःविमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥२॥
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाःब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥३॥
विशोका नष्टरजसस्तेषां लोकाः सनातनाःतेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥४॥
स्यूमरश्मिरुवाचयद्येषा परमा निष्ठा यद्येषा परमा गतिःगृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥५॥
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवःएवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः ॥६॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपःगार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते ॥७॥
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुनेप्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥८॥
यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विजओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यतेकस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ॥९॥
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैःनिराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिःश्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ॥१०॥
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवाब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥११॥
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषुअविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् ॥१२॥
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम्दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ॥१३॥
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताःमृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥१४॥
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥१५॥
श्रिया विहीनैरलसैः पण्डितैरपलापितम्वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥१६॥
न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैःऊर्ध्वं यज्ञः पशुभिः सार्धमेति; संतर्पितस्तर्पयते च कामैः ॥१७॥
न वेदानां परिभवान्न शाठ्येन न माययामहत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति ॥१८॥
कपिल उवाच
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम्चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥१९॥
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताःब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ॥२०॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतःदेवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥२१॥
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दाबाहुभ्यां वाच उदरादुपस्था;त्तेषां द्वारं द्वारपालो बुभूषेत् ॥२२॥
नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत्क्रुद्धो न चैव प्रहरेत धीमां;स्तथास्य तत्पाणिपादं सुगुप्तम् ॥२३॥
नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात्सत्यव्रतो मितभाषोऽप्रमत्त;स्तथास्य वाग्द्वारमथो सुगुप्तम् ॥२४॥
नानाशनः स्यान्न महाशनः स्या;दलोलुपः साधुभिरागतः स्यात्यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः ॥२५॥
न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीतभार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत ॥२६॥
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणःउपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः ॥२७॥
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युतकिं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥२८॥
अनुत्तरीयवसनमनुपस्तीर्णशायिनम्बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥२९॥
द्वंद्वारामेषु सर्वेषु य एको रमते मुनिःपरेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥३०॥
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च यागतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥३१॥
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतःसर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥३२॥
नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम्अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् ॥३३॥
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि चविगुणानि च पश्यन्ति तथानैकान्तिकानि च ॥३४॥
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराःअनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥३५॥
स्यूमरश्मिरुवाचयथा च वेदप्रामाण्यं त्यागश्च सफलो यथातौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥३६॥
कपिल उवाच
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताःप्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥३७॥
स्यूमरश्मिरुवाचस्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतःश्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षयाइमं च संशयं घोरं भगवान्प्रब्रवीतु मे ॥३८॥
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताःकिमत्र प्रत्यक्षतमं भवन्तो यदुपासतेअन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ॥३९॥
आगमो वेदवादस्तु तर्कशास्त्राणि चागमःयथागममुपासीत आगमस्तत्र सिध्यतिसिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥४०॥
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धनाह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यतिएतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ॥४१॥
नैव त्यागी न संतुष्टो नाशोको न निरामयःन निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥४२॥
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥४३॥
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषुएकमालम्बमानानां निर्णये किं निरामयम् ॥४४॥
कपिल उवाच
यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषुयस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ॥४५॥
सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्ततेज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥४६॥
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाःऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥४७॥
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाःकामद्वेषाभिभूतत्वादहंकारवशं गताः ॥४८॥
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवःब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः ॥४९॥
वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जतेतेषां तमःशरीराणां तम एव परायणम् ॥५०॥
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगःतस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदःनित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः ॥५१॥
एतद्बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम्परां गतिमभीप्सन्तो यतयः संयमे रताः ॥५२॥
स्यूमरश्मिरुवाचसर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम्न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥५३॥
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिःयदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥५४॥
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयःयदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥५५॥
शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनःशास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरेअविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥५६॥
शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशःपिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम्वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ॥५७॥
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् ॥५८॥
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित्धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥५९॥
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रियाएतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥६०॥
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोःयथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥६१॥
अध्याय समाप्त ॥
१

0
अध्याय 261पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0