Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
धर्ममर्थं च कामं च वेदाः शंसन्ति भारतकस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥२॥
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षतयज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥३॥
स निश्चयमथो कृत्वा पूजयामास देवताःभक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः ॥४॥
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत्यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥५॥
अथ सौम्येन वपुषा देवानुचरमन्तिकेप्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥६॥
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायतअयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥७॥
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतःएष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥८॥
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपिबलिभिर्विविधैश्चापि पूजयामास तं द्विजः ॥९॥
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदातस्योपकारे नियतामिमां वाचमुवाच ह ॥१०॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथानिष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥११॥
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतःपुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥१२॥
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसाअपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥१३॥
शमेन तपसा चैव भक्त्या च निरुपस्कृतःशुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥१४॥
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥१५॥
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि चशुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥१६॥
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिःनिष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥१७॥
ततस्तु देववचनान्मणिभद्रो महायशाःउवाच पतितं भूमौ कुण्डधार किमिष्यते ॥१८॥
कुण्डधार उवाच
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो ममअस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् ॥१९॥
भीष्म उवाच
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत्देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥२०॥
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भवयावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तवदेवानां शासनात्तावदसंख्येयं ददाम्यहम् ॥२१॥
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम्तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥२२॥
कुण्डधार उवाच
नाहं धनानि याचामि ब्राह्मणाय धनप्रदअन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥२३॥
पृथिवीं रत्नपूर्णां वा महद्वा धनसंचयम्भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥२४॥
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतुधर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥२५॥
मणिभद्र उवाच
यदा धर्मफलं राज्यं सुखानि विविधानि चफलान्येवायमश्नातु कायक्लेशविवर्जितः ॥२६॥
भीष्म उवाच
ततस्तदेव बहुशः कुण्डधारो महायशाःअभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः ॥२७॥
मणिभद्र उवाच
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव चभविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ॥२८॥
भीष्म उवाच
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिरईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥२९॥
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमःपार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः ॥३०॥
ब्राह्मण उवाच
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम्गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् ॥३१॥
भीष्म उवाच
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमःवनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥३२॥
देवतातिथिशेषेण फलमूलाशनो द्विजःधर्मे चापि महाराज रतिरस्याभ्यजायत ॥३३॥
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजःपर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः ॥३४॥
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत्न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥३५॥
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततःकालेन महता तस्य दिव्या दृष्टिरजायत ॥३६॥
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम्तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम ॥३७॥
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपःभूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत ॥३८॥
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित्स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥३९॥
तस्य साक्षात्कुण्डधारो दर्शयामास भारतब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥४०॥
समागम्य स तेनाथ पूजां चक्रे यथाविधिब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥४१॥
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम्पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा ॥४२॥
ततो राज्ञां सहस्राणि मग्नानि निरये तदादूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥४३॥
कुण्डधार उवाच
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाःकृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥४४॥
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरःस्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥४५॥
भीष्म उवाच
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम्निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् ॥४६॥
कुण्डधार उवाच
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम्तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥४७॥
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकःएष शक्तोऽसि तपसा राज्यं दातुं धनानि च ॥४८॥
भीष्म उवाच
ततः पपात शिरसा ब्राह्मणस्तोयधारिणेउवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥४९॥
कामलोभानुबन्धेन पुरा ते यदसूयितम्मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥५०॥
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम्संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥५१॥
ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार हकुण्डधारप्रसादेन तपसा योजितः पुरा ॥५२॥
विहायसा च गमनं तथा संकल्पितार्थताधर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥५३॥
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाःधार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥५४॥
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिःधने सुखकला काचिद्धर्मे तु परमं सुखम् ॥५५॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 263

0
Adhyaya 263Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0