Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
उशनोवाचनमस्तस्मै भगवते देवाय प्रभविष्णवेयस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् ॥१॥
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तमतस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥२॥
भीष्म उवाच
तयोः संवदतोरेवमाजगाम महामुनिःसनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ॥३॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथानिषसादासने राजन्महार्हे मुनिपुंगवः ॥४॥
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत्ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् ॥५॥
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत्विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥६॥
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप ॥७॥
सृजत्येष महाबाहो भूतग्रामं चराचरम्एष चाक्षिपते काले काले विसृजते पुनःअस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥८॥
नैष दानवता शक्यस्तपसा नैव चेज्ययासंप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥९॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितःनिर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥१०॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह ॥११॥
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणायत्नेन महता चैवाप्येकजातौ विशुध्यते ॥१२॥
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजःबहु यत्नेन महता दोषनिर्हरणं तथा ॥१३॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥१४॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनःविमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥१५॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषुबुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥१६॥
कर्मणा स्वेन रक्तानि विरक्तानि च दानवयथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥१७॥
यथा च संप्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभोतत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥१८॥
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुःस वै सृजति भूतानि स्थावराणि चराणि च ॥१९॥
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव चएकादशविकारात्मा जगत्पिबति रश्मिभिः ॥२०॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव चबाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥२१॥
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥२२॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तमनक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥२३॥
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम्सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥२४॥
अकर्मणः फलं चैव स एव परमव्ययःछन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥२५॥
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितःस ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥२६॥
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सःपितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः ॥२७॥
मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथाते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥२८॥
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम्जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥२९॥
संहारविक्षेपसहस्रकोटी;स्तिष्ठन्ति जीवाः प्रचरन्ति चान्येप्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य ॥३०॥
वाप्यः पुनर्योजनविस्तृतास्ताः; क्रोशं च गम्भीरतयावगाढाःआयामतः पञ्चशताश्च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः ॥३१॥
वाप्या जलं क्षिप्यति वालकोट्या; त्वह्ना सकृच्चाप्यथ न द्वितीयम्तासां क्षये विद्धि कृतं विसर्गं; संहारमेकं च तथा प्रजानाम् ॥३२॥
षड्जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलमथास्य मध्यम्रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम् ॥३३॥
परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्रगत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिमुपैति जीवः ॥३४॥
गतिं च यां दर्शनमाह देवो; गत्वा शुभं दर्शनमेव चाहगतिः पुनर्वर्णकृता प्रजानां; वर्णस्तथा कालकृतोऽसुरेन्द्र ॥३५॥
शतं सहस्राणि चतुर्दशेह; परा गतिर्जीवगुणस्य दैत्यआरोहणं तत्कृतमेव विद्धि; स्थानं तथा निःसरणं च तेषाम् ॥३६॥
कृष्णस्य वर्णस्य गतिर्निकृष्टा; स मज्जते नरके पच्यमानःस्थानं तथा दुर्गतिभिस्तु तस्य; प्रजाविसर्गान्सुबहून्वदन्ति ॥३७॥
शतं सहस्राणि ततश्चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात्स चैव तस्मिन्निवसत्यनीशो; युगक्षये तमसा संवृतात्मा ॥३८॥
स वै यदा सत्त्वगुणेन युक्त;स्तमो व्यपोहन्घटते स्वबुद्ध्यास लोहितं वर्णमुपैति नीलो; मनुष्यलोके परिवर्तते च ॥३९॥
स तत्र संहारविसर्गमेव; स्वकर्मजैर्बन्धनैः क्लिश्यमानःततः स हारिद्रमुपैति वर्णं; संहारविक्षेपशते व्यतीते ॥४०॥
हारिद्रवर्णस्तु प्रजाविसर्गा;न्सहस्रशस्तिष्ठति संचरन्वैअविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि ॥४१॥
गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैवविमुक्तमेनं निरयाच्च विद्धि; सर्वेषु चान्येषु च संभवेषु ॥४२॥
स देवलोके विहरत्यभीक्ष्णं; ततश्च्युतो मानुषतामुपैतिसंहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्नमृतत्वमेति ॥४३॥
सोऽस्मादथ भ्रश्यति कालयोगा;त्कृष्णे तले तिष्ठति सर्वकष्टेयथा त्वयं सिध्यति जीवलोक;स्तत्तेऽभिधास्याम्यसुरप्रवीर ॥४४॥
दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रोऽथ तथैव शुक्लःसंश्रित्य संधावति शुक्लमेत;मष्टापरानर्च्यतमान्स लोकान् ॥४५॥
अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम्शुक्लस्य वर्णस्य परा गतिर्या; त्रीण्येव रुद्धानि महानुभाव ॥४६॥
संहारविक्षेपमनिष्टमेकं; चत्वारि चान्यानि वसत्यनीशःषष्ठस्य वर्णस्य परा गतिर्या; सिद्धा विशिष्टस्य गतक्लमस्य ॥४७॥
सप्तोत्तरं तेषु वसत्यनीशः; संहारविक्षेपशतं सशेषम्तस्मादुपावृत्य मनुष्यलोके; ततो महान्मानुषतामुपैति ॥४८॥
तस्मादुपावृत्य ततः क्रमेण; सोऽग्रे स्म संतिष्ठति भूतसर्गम्स सप्तकृत्वश्च परैति लोका;न्संहारविक्षेपकृतप्रवासः ॥४९॥
सप्तैव संहारमुपप्लवानि; संभाव्य संतिष्ठति सिद्धलोकेततोऽव्ययं स्थानमनन्तमेति; देवस्य विष्णोरथ ब्रह्मणश्चशेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव ॥५०॥
संहारकाले परिदग्धकाया; ब्रह्माणमायान्ति सदा प्रजा हिचेष्टात्मनो देवगणाश्च सर्वे; ये ब्रह्मलोकादमराः स्म तेऽपि ॥५१॥
प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्येव सरन्ति जीवाःनिःशेषाणां तत्पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः ॥५२॥
ये तु च्युताः सिद्धलोकात्क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्याजीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण ॥५३॥
स यावदेवास्ति सशेषभुक्ते; प्रजाश्च देव्यौ च तथैव शुक्लेतावत्तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपमेतत् ॥५४॥
शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन्ततोऽव्ययं स्थानमुपैति ब्रह्म; दुष्प्रापमभ्येति स शाश्वतं वैइत्येतदाख्यातमहीनसत्त्व; नारायणस्येह बलं मया ते ॥५५॥
वृत्र उवाच
एवं गते मे न विषादोऽस्ति कश्चि;त्सम्यक्च पश्यामि वचस्तवैतत्श्रुत्वा च ते वाचमदीनसत्त्व; विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥५६॥
प्रवृत्तमेतद्भगवन्महर्षे; महाद्युतेश्चक्रमनन्तवीर्यम्विष्णोरनन्तस्य सनातनं त;त्स्थानं सर्गा यत्र सर्वे प्रवृत्ताःस वै महात्मा पुरुषोत्तमो वै; तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥५७॥
भीष्म उवाच
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत्योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥५८॥
युधिष्ठिर उवाच
अयं स भगवान्देवः पितामह जनार्दनःसनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥५९॥
भीष्म उवाच
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसातत्स्थः सृजति तान्भावान्नानारूपान्महातपाः ॥६०॥
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम्तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥६१॥
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्ततेस शेते भगवानप्सु योऽसावतिबलः प्रभुःतान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥६२॥
सर्वाण्यशून्यानि करोत्यनन्तः; सनत्कुमारः संचरते च लोकान्स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत्सर्वमिदं विचित्रम् ॥६३॥
युधिष्ठिर उवाच
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिःशुभा तस्मात्स सुखितो न शोचति पितामह ॥६४॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघतिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥६५॥
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिवतिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥६६॥
वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखेकां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥६७॥
भीष्म उवाच
शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताःविहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥६८॥
प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वासुखेन संयास्यथ सिद्धसंख्यां; मा वो भयं भूद्विमलाः स्थ सर्वे ॥६९॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 271

0
Adhyaya 271Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0