Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतःज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् ॥१॥
व्यास उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर ॥२॥
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपःसंशयं परिपप्रच्छ दुःखशोकपरिप्लुतः ॥३॥
जनक उवाच
आगमे यदि वापाये ज्ञातीनां द्रविणस्य चनरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता ॥४॥
अश्मोवाचउत्पन्नमिममात्मानं नरस्यानन्तरं ततःतानि तान्यभिवर्तन्ते दुःखानि च सुखानि च ॥५॥
तेषामन्यतरापत्तौ यद्यदेवोपसेवतेतत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः ॥६॥
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषःइत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति ॥७॥
स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान्परिक्षीणः परस्वानामादानं साधु मन्यते ॥८॥
तमतिक्रान्तमर्यादमाददानमसांप्रतम्प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥९॥
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाःपरेण ते वर्षशतान्न भविष्यन्ति पार्थिव ॥१०॥
तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत्सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः ॥११॥
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमःअनिष्टोपनिपातो वा तृतीयं नोपपद्यते ॥१२॥
एवमेतानि दुःखानि तानि तानीह मानवम्विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च ॥१३॥
जरामृत्यू ह भूतानि खादितारौ वृकाविवबलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥१४॥
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवःअपि सागरपर्यन्तां विजित्येमां वसुंधराम् ॥१५॥
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥१६॥
पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिपअवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा ॥१७॥
सुप्रियैर्विप्रयोगश्च संप्रयोगस्तथाप्रियैःअर्थानर्थौ सुखं दुःखं विधानमनुवर्तते ॥१८॥
प्रादुर्भावश्च भूतानां देहन्यासस्तथैव चप्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् ॥१९॥
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतःतथैव सुखदुःखानि विधानमनुवर्तते ॥२०॥
आसनं शयनं यानमुत्थानं पानभोजनम्नियतं सर्वभूतानां कालेनैव भवन्त्युत ॥२१॥
वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाःस्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः ॥२२॥
कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव चसौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥२३॥
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् ॥२४॥
व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम्रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा ॥२५॥
निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुनादृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः ॥२६॥
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरःदरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप ॥२७॥
अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनःसमृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥२८॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यतेकाष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप ॥२९॥
अहमेतत्करोमीति मन्यते कालचोदितःयद्यदिष्टमसंतोषाद्दुरात्मा पापमाचरन् ॥३०॥
स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैःदृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः ॥३१॥
इति कालेन सर्वार्थानीप्सितानीप्सितानि चस्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते ॥३२॥
वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपेज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा ॥३३॥
शीतमुष्णं तथा वर्षं कालेन परिवर्ततेएवमेव मनुष्याणां सुखदुःखे नरर्षभ ॥३४॥
नौषधानि न शास्त्राणि न होमा न पुनर्जपाःत्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥३५॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौसमेत्य च व्यतीयातां तद्वद्भूतसमागमः ॥३६॥
ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताःये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥३७॥
मातृपितृसहस्राणि पुत्रदारशतानि चसंसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥३८॥
नैवास्य कश्चिद्भविता नायं भवति कस्यचित्पथि संगतमेवेदं दारबन्धुसुहृद्गणैः ॥३९॥
क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितःकस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनःअनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ॥४०॥
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाःआगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥४१॥
कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत्यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् ॥४२॥
संनिमज्जज्जगदिदं गम्भीरे कालसागरेजरामृत्युमहाग्राहे न कश्चिदवबुध्यते ॥४३॥
आयुर्वेदमधीयानाः केवलं सपरिग्रहम्दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ॥४४॥
ते पिबन्तः कषायांश्च सर्पींषि विविधानि चन मृत्युमतिवर्तन्ते वेलामिव महोदधिः ॥४५॥
रसायनविदश्चैव सुप्रयुक्तरसायनाःदृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥४६॥
तथैव तपसोपेताः स्वाध्यायाभ्यसने रताःदातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ ॥४७॥
न ह्यहानि निवर्तन्ते न मासा न पुनः समाःजातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ॥४८॥
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवःनरोऽवशः समभ्येति सर्वभूतनिषेवितम् ॥४९॥
देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतःपथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ॥५०॥
नायमत्यन्तसंवासो लभ्यते जातु केनचित्अपि स्वेन शरीरेण किमुतान्येन केनचित् ॥५१॥
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहःन त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च ॥५२॥
न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वाआगमस्तु सतां चक्षुर्नृपते तमिहाचर ॥५३॥
चरितब्रह्मचर्यो हि प्रजायेत यजेत चपितृदेवमहर्षीणामानृण्यायानसूयकः ॥५४॥
स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षःआराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् ॥५५॥
सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत्प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु ॥५६॥
व्यास उवाच
इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुःअश्मानमामन्त्र्य विशुद्धबुद्धि;र्ययौ गृहं स्वं प्रति शान्तशोकः ॥५७॥
तथा त्वमप्यच्युत मुञ्च शोक;मुत्तिष्ठ शक्रोपम हर्षमेहिक्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः ॥५८॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 28

0
Adhyaya 28Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0