महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 280
महाभारत · शान्ति पर्व
पराशर उवाच
मनोरथरथं प्राप्य इन्द्रियार्थहयं नरःरश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान् ॥१॥
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यतेद्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥२॥
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पतेउत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥३॥
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हतिन तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥४॥
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणादुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥५॥
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत्पापं हि कर्म फलति पापमेव स्वयं कृतम्तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥६॥
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम्न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥७॥
किंकष्टमनुपश्यामि फलं पापस्य कर्मणःप्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥८॥
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायतेतस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥९॥
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥१०॥
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठतिप्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥११॥
अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षतिब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥१२॥
तथा कामकृतं चास्य विहिंसैवापकर्षतिइत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥१३॥
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम्गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥१४॥
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥१५॥
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥१६॥
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथानाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥१७॥
संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनःकरोति यः शुभं कर्म स वै भद्राणि पश्यति ॥१८॥
नवे कपाले सलिलं संन्यस्तं हीयते यथानवेतरे तथाभावं प्राप्नोति सुखभावितम् ॥१९॥
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यतेवृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥२०॥
एवं कर्माणि यानीह बुद्धियुक्तानि भूपतेनसमानीह हीनानि तानि पुण्यतमान्यपि ॥२१॥
राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम्अग्निश्चेयो बहुभिश्चापि यज्ञै;रन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥२२॥
दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत्गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र ॥२३॥
अध्याय समाप्त ॥
१

0
अध्याय 280पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0