महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 282
महाभारत · शान्ति पर्व
पराशर उवाच
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभनाप्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥१॥
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवान वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥२॥
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिःनित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥३॥
यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यतेतथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥४॥
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम्तादृशं कुरुते रूपमेतदेवमवैहि मे ॥५॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचनअनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥६॥
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणःयश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥७॥
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम्न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥८॥
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षितास शब्दमात्रफलभाग्राजा भवति तस्करः ॥९॥
स्वयंभूरसृजच्चाग्रे धातारं लोकपूजितम्धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥१०॥
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत्रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥११॥
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिःशूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥१२॥
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाःसुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥१३॥
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यतेअधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥१४॥
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियःअतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥१५॥
प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाःन्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥१६॥
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिपयादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥१७॥
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम्याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥१८॥
अवज्ञया दीयते यत्तथैवाश्रद्धयापि चतदाहुरधमं दानं मुनयः सत्यवादिनः ॥१९॥
अतिक्रमे मज्जमानो विविधेन नरः सदातथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥२०॥
दमेन शोभते विप्रः क्षत्रियो विजयेन तुधनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥२१॥
अध्याय समाप्त ॥
१

0
अध्याय 282पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0