Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
ततः स राजा जनको मन्त्रिभिः सह भारतपुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च ॥१॥
आसनं च पुरस्कृत्य रत्नानि विविधानि चशिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् ॥२॥
स तदासनमादाय बहुरत्नविभूषितम्स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥३॥
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवःप्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥४॥
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत्पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत्स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ॥५॥
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमःगां चैव समनुज्ञाय राजानमनुमान्य च ॥६॥
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्अनामयं च राजेन्द्र शुकः सानुचरस्य ह ॥७॥
अनुज्ञातः स तेनाथ निषसाद सहानुगःउदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ॥८॥
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपःकिमागमनमित्येव पर्यपृच्छत पार्थिवः ॥९॥
शुक उवाच
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदःविदेहराजो याज्यो मे जनको नाम विश्रुतः ॥१०॥
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयःप्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् ॥११॥
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतःतन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥१२॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकःकथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ॥१३॥
जनक उवाच
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणुकृतोपनयनस्तात भवेद्वेदपरायणः ॥१४॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभोदेवतानां पितॄणां चाप्यनृणश्चानसूयकः ॥१५॥
वेदानधीत्य नियतो दक्षिणामपवर्ज्य चअभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ॥१६॥
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत्अनसूयुर्यथान्यायमाहिताग्निस्तथैव च ॥१७॥
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥१८॥
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥१९॥
शुक उवाच
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वतेकिमवश्यं निवस्तव्यमाश्रमेषु वनेषु च ॥२०॥
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हतियथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥२१॥
जनक उवाच
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत्न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥२२॥
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यतेविज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥२३॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः ॥२४॥
अनेन क्रमयोगेन बहुजातिषु कर्मणाकृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥२५॥
भावितैः कारणैश्चायं बहुसंसारयोनिषुआसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥२६॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितःत्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ॥२७॥
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥२८॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनिसंपश्यन्नोपलिप्येत जले वारिचरो यथा ॥२९॥
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुतेविहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः ॥३०॥
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिनाधार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥३१॥
ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत्स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा ॥३२॥
न बिभेति परो यस्मान्न बिभेति पराच्च यःयश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥३३॥
यदा भावं न कुरुते सर्वभूतेषु पापकम्कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥३४॥
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम्त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ॥३५॥
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा ॥३६॥
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यतिकाञ्चनं चायसं चैव सुखदुःखे तथैव च ॥३७॥
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥३८॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनःतथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥३९॥
तमःपरिगतं वेश्म यथा दीपेन दृश्यतेतथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥४०॥
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वरयच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् ॥४१॥
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतःगुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥४२॥
तस्यैव च प्रसादेन प्रादुर्भूतं महामुनेज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥४३॥
अधिकं तव विज्ञानमधिका च गतिस्तवअधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे ॥४४॥
बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात्उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ॥४५॥
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयःविमुच्य हृदयग्रन्थीनासादयति तां गतिम् ॥४६॥
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपःव्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥४७॥
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपानौत्सुक्यं नृत्तगीतेषु न राग उपजायते ॥४८॥
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम्पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥४९॥
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणःआस्थितं परमं मार्गमक्षयं तमनामयम् ॥५०॥
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकःतस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥५१॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 313

0
Adhyaya 313Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0