Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥१॥
प्रजानां पालनं धर्मो राज्ञां राजीवलोचनधर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ॥२॥
अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम्ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ॥३॥
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभतस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥४॥
तथा यः प्रतिहन्त्यस्य शासनं विषये नरःस बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥५॥
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतःभृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चनपापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा ॥६॥
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ॥७॥
ते त्वया धर्महन्तारो निहताः सपदानुगाःस्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डवराजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥८॥
युधिष्ठिर उवाच
न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधनअपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ॥९॥
मया ह्यवध्या बहवो घातिता राज्यकारणात्तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ॥१०॥
व्यास उवाच
ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारतहठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥११॥
ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिवकुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ॥१२॥
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वनेछेत्तुरेव भवेत्पापं परशोर्न कथंचन ॥१३॥
अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम्दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१४॥
न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम्प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥१५॥
अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोःन परं विद्यते तस्मादेवमन्यच्छुभं कुरु ॥१६॥
न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्ततेदण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥१७॥
यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम्एवमप्यशुभं कर्म न भूतं न भविष्यति ॥१८॥
अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोःअभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ॥१९॥
अथापि लोके कर्माणि समावर्तन्त भारतशुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ॥२०॥
एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम्त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ॥२१॥
स्वधर्मे वर्तमानस्य सापवादेऽपि भारतएवमात्मपरित्यागस्तव राजन्न शोभनः ॥२२॥
विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम्शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥२३॥
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसिप्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ॥२४॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 32

0
Adhyaya 32Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0