महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 320
महाभारत · शान्ति पर्व
भीष्म उवाच
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाःप्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् ॥१॥
तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजःततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥२॥
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जितेब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥३॥
उल्कापाता दिशां दाहा भूमिकम्पास्तथैव चप्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥४॥
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताःनिर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह ॥५॥
न बभासे सहस्रांशुर्न जज्वाल च पावकःह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥६॥
ववर्ष वासवस्तोयं रसवच्च सुगन्धि चववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥७॥
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवेसंश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ॥८॥
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारतउदीचीं दिशमाश्रित्य रुचिरे संददर्श ह ॥९॥
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकःततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृतेअदृश्येतां महाराज तदद्भुतमिवाभवत् ॥१०॥
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतःन च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥११॥
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥१२॥
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्साधु साध्विति तत्रासीन्नादः सर्वत्र भारत ॥१३॥
स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथायक्षराक्षससंघैश्च विद्याधरगणैस्तथा ॥१४॥
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततःआसीत्किल महाराज शुकाभिपतने तदा ॥१५॥
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥१६॥
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाःशून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥१७॥
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितःउत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥१८॥
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम्दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥१९॥
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाःनिमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥२०॥
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा ॥२१॥
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदास्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै ॥२२॥
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखःप्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥२३॥
तत एकाक्षरं नादं भो इत्येव समीरयन्प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥२४॥
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति ॥२५॥
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदागुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम् ॥२६॥
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसःनिषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥२७॥
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाःआसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः ॥२८॥
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरेवसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् ॥२९॥
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदासक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह ॥३०॥
तं देवगन्धर्ववृतो महर्षिगणपूजितःपिनाकहस्तो भगवानभ्यागच्छत शंकरः ॥३१॥
तमुवाच महादेवः सान्त्वपूर्वमिदं वचःपुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा ॥३२॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव हवीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः ॥३३॥
स तथालक्षणो जातस्तपसा तव संभृतःमम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः ॥३४॥
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैःदैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥३५॥
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराःतावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥३६॥
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदाद्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥३७॥
सोऽनुनीतो भगवता स्वयं रुद्रेण भारतछायां पश्यन्समावृत्तः स मुनिः परया मुदा ॥३८॥
इति जन्म गतिश्चैव शुकस्य भरतर्षभविस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि ॥३९॥
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुराव्यासश्चैव महायोगी संजल्पेषु पदे पदे ॥४०॥
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम्धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥४१॥
अध्याय समाप्त ॥
१

0
अध्याय 320पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0