Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
नाग उवाच
अथ ब्राह्मणरूपेण कं तं समनुपश्यसिमानुषं केवलं विप्रं देवं वाथ शुचिस्मिते ॥१॥
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनिसंदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥२॥
सुरासुरगणानां च देवर्षीणां च भामिनिननु नागा महावीर्याः सौरसेयास्तरस्विनः ॥३॥
वन्दनीयाश्च वरदा वयमप्यनुयायिनःमनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः ॥४॥
नागभार्योवाचआर्जवेनाभिजानामि नासौ देवोऽनिलाशनएकं त्वस्य विजानामि भक्तिमानतिरोषणः ॥५॥
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथावर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति ॥६॥
न हि त्वा दैवतं किंचिद्विविग्नं प्रतिपालयेत्तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते ॥७॥
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसिआशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि ॥८॥
आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम्राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥९॥
मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत्वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥१०॥
भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम्नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलमुपाश्नुते ॥११॥
अभिप्रेतामसंक्लिष्टां कृत्वाकामवतीं क्रियाम्न याति निरयं कश्चिदिति धर्मविदो विदुः ॥१२॥
नाग उवाच
अभिमानेन मानो मे जातिदोषेण वै महान्रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया ॥१३॥
न च रोषादहं साध्वि पश्येयमधिकं तमःयस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः ॥१४॥
दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान्तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥१५॥
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः ॥१६॥
जामदग्न्येन रामेण सहस्रनयनोपमःसंयुगे निहतो रोषात्कार्तवीर्यो महाबलः ॥१७॥
तदेष तपसां शत्रुः श्रेयसश्च निपातनःनिगृहीतो मया रोषः श्रुत्वैव वचनं तव ॥१८॥
आत्मानं च विशेषेण प्रशंसाम्यनपायिनियस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता ॥१९॥
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजःसर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति ॥२०॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 348

0
Adhyaya 348Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0