Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरःकिं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह ॥१॥
व्यास उवाच
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् ॥२॥
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युततथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥३॥
परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकःदिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥४॥
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथाअतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥५॥
ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयीशूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ॥६॥
वृथापशुसमालम्भी वनदाहस्य कारकःअनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ॥७॥
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयीएतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥८॥
अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मेलोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥९॥
स्वधर्मस्य परित्यागः परधर्मस्य च क्रियाअयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ॥१०॥
शरणागतसंत्यागो भृत्यस्याभरणं तथारसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥११॥
आधानादीनि कर्माणि शक्तिमान्न करोति यःअप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत ॥१२॥
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥१३॥
पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगःअप्रजायन्नधर्मेण भवत्याधर्मिको जनः ॥१४॥
उक्तान्येतानि कर्माणि विस्तरेणेतरेण चयानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः ॥१५॥
एतान्येव तु कर्माणि क्रियमाणानि मानवान्येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु ॥१६॥
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणेजिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् ॥१७॥
अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यतेवेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते ॥१८॥
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ॥१९॥
प्राणात्यये तथाज्ञानादाचरन्मदिरामपिअचोदितो धर्मपरः पुनः संस्कारमर्हति ॥२०॥
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति ॥२१॥
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम्उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥२२॥
स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यतेबहुशः कामकारेण न चेद्यः संप्रवर्तते ॥२३॥
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यतिस्वयमप्राशिता यश्च न स पापेन लिप्यते ॥२४॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वागुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥२५॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचनआज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥२६॥
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथाभिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ॥२७॥
वृथापशुसमालम्भं नैव कुर्यान्न कारयेत्अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ॥२८॥
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् ॥२९॥
स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिकाअपि सा पूयते तेन न तु भर्ता प्रदुष्यते ॥३०॥
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकःअसमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्वनदाहो गवामर्थे क्रियमाणो न दूषकः ॥३१॥
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यतिप्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ॥३२॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 35

0
Adhyaya 35Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0