Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
ततो विसर्जयामास सर्वाः प्रकृतयो नृपःविविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च ॥१॥
ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा ॥२॥
शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणेश्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ॥३॥
अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाःभवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा ॥४॥
यथासुखं यथाजोषं जयोऽयमनुभूयताम्विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः ॥५॥
ततो दुर्योधनगृहं प्रासादैरुपशोभितम्बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ॥६॥
धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरःप्रतिपेदे महाबाहुर्मन्दरं मघवानिव ॥७॥
यथा दुर्योधनगृहं तथा दुःशासनस्य चप्रासादमालासंयुक्तं हेमतोरणभूषितम् ॥८॥
दासीदाससुसंपूर्णं प्रभूतधनधान्यवत्प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ॥९॥
दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम्कुबेरभवनप्रख्यं मणिहेमविभूषितम् ॥१०॥
नकुलाय वरार्हाय कर्शिताय महावनेददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः ॥११॥
दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम्पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥१२॥
प्रददौ सहदेवाय सततं प्रियकारिणेमुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा ॥१३॥
युयुत्सुर्विदुरश्चैव संजयश्च महाद्युतिःसुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् ॥१४॥
सह सात्यकिना शौरिरर्जुनस्य निवेशनम्विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ॥१५॥
तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताःसुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् ॥१६॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 44

0
Adhyaya 44Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0