Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
जनमेजय उवाच
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरःयदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥१॥
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुःऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥२॥
वैशंपायन उवाच
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघवासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥३॥
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरःचातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ॥४॥
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ॥५॥
तथानुजीविनो भृत्यान्संश्रितानतिथीनपिकामैः संतर्पयामास कृपणांस्तर्ककानपि ॥६॥
पुरोहिताय धौम्याय प्रादादयुतशः स गाःधनं सुवर्णं रजतं वासांसि विविधानि च ॥७॥
कृपाय च महाराज गुरुवृत्तिमवर्ततविदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ॥८॥
भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैःसर्वान्संतोषयामास संश्रितान्ददतां वरः ॥९॥
लब्धप्रशमनं कृत्वा स राजा राजसत्तमयुयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ॥१०॥
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय चनिवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ॥११॥
तथा सर्वं स नगरं प्रसाद्य जनमेजयवासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥१२॥
ततो महति पर्यङ्के मणिकाञ्चनभूषितेददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥१३॥
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ॥१४॥
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम्उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम्नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन ॥१५॥
सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्उवाच मधुराभाषः स्मितपूर्वमिदं तदा ॥१६॥
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वरकच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥१७॥
तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वरवयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥१८॥
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रमजयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ॥१९॥
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम्नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत ॥२०॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 45

0
Adhyaya 45Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0