महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 46
महाभारत · शान्ति पर्व
युधिष्ठिर उवाच
किमिदं परमाश्चर्यं ध्यायस्यमितविक्रमकच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण ॥१॥
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तमअपक्रान्तो यतो देव तेन मे विस्मितं मनः ॥२॥
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगःइन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते ॥३॥
इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि तेसर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः ॥४॥
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनःस्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव ॥५॥
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युततथासि भगवन्देव निश्चलो दृढनिश्चयः ॥६॥
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदिछिन्धि मे संशयं देव प्रपन्नायाभियाचते ॥७॥
त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हिअनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ॥८॥
त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय चध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर ॥९॥
वैशंपायन उवाच
ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि चस्मितपूर्वमुवाचेदं भगवान्वासवानुजः ॥१०॥
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनःमां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ॥११॥
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेःन सहेद्देवराजोऽपि तमस्मि मनसा गतः ॥१२॥
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम्ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ॥१३॥
त्रयोविंशतिरात्रं यो योधयामास भार्गवम्न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ॥१४॥
यं गङ्गा गर्भविधिना धारयामास पार्थिवम्वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप ॥१५॥
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान्साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ॥१६॥
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डवआधारं सर्वविद्यानां तमस्मि मनसा गतः ॥१७॥
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधयाशरणं मामुपागच्छत्ततो मे तद्गतं मनः ॥१८॥
स हि भूतं च भव्यं च भवच्च पुरुषर्षभवेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः ॥१९॥
तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गतेभविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ॥२०॥
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम्अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम् ॥२१॥
चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव चचातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ॥२२॥
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरेज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् ॥२३॥
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम्साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ॥२४॥
यद्भवानाह भीष्मस्य प्रभावं प्रति माधवतथा तन्नात्र संदेहो विद्यते मम मानद ॥२५॥
महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनःश्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् ॥२६॥
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदनतथा तदनभिध्येयं वाक्यं यादवनन्दन ॥२७॥
यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधवत्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् ॥२८॥
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यतित्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः ॥२९॥
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य चदर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः ॥३०॥
श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनःपार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ॥३१॥
सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतःदारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ॥३२॥
स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम्मसारगल्वर्कमयैर्विभङ्गै;र्विभूषितं हेमपिनद्धचक्रम् ॥३३॥
दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम्नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् ॥३४॥
सुग्रीवसैन्यप्रमुखैर्वराश्वै;र्मनोजवैः काञ्चनभूषिताङ्गैःसुयुक्तमावेदयदच्युताय; कृताञ्जलिर्दारुको राजसिंह ॥३५॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0