Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनःयाममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥१॥
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवःअवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥२॥
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनःअस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥३॥
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाःशङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ॥४॥
वीणापणववेणूनां स्वनश्चातिमनोरमःप्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥५॥
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताःउच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ॥६॥
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतःजप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥७॥
ततः सहस्रं विप्राणां चतुर्वेदविदां तथागवां सहस्रेणैकैकं वाचयामास माधवः ॥८॥
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य चआदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥९॥
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ॥१०॥
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौउपगम्य च राजानं युधिष्ठिरमुवाच ह ॥११॥
युक्तो रथवरो राजन्वासुदेवस्य धीमतःसमीपमापगेयस्य प्रयास्यति जनार्दनः ॥१२॥
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युतेयदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥१३॥
युधिष्ठिर उवाच
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युतेन सैनिकैश्च यातव्यं यास्यामो वयमेव हि ॥१४॥
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरःअतः पुरःसराश्चापि निवर्तन्तु धनंजय ॥१५॥
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यतिततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥१६॥
वैशंपायन उवाच
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयःयुक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥१७॥
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपिभूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥१८॥
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसुशैनेयसहितो धीमान्रथमेवान्वपद्यत ॥१९॥
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्मेघघोषै रथवरैः प्रययुस्ते महारथाः ॥२०॥
मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव चदारुकश्चोदयामास वासुदेवस्य वाजिनः ॥२१॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताःगां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥२२॥
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाःक्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥२३॥
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुःआस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥२४॥
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरःभीमो गाण्डीवधन्वा च यमौ सात्यकिरेव चऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥२५॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाःअभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥२६॥
शरतल्पे शयानं तमादित्यं पतितं यथाददर्श स महाबाहुर्भयादागतसाध्वसः ॥२७॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 53

0
Adhyaya 53Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0