Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वैशंपायन उवाच
एतावदुक्त्वा देवर्षिर्विरराम स नारदःयुधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ॥१॥
तं दीनमनसं वीरमधोवदनमातुरम्निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ॥२॥
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतनाअब्रवीन्मधुराभाषा काले वचनमर्थवत् ॥३॥
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसिजहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ॥४॥
यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तवभास्करेण च देवेन पित्रा धर्मभृतां वर ॥५॥
यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छतातथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ॥६॥
न चैनमशकद्भानुरहं वा स्नेहकारणैःपुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया ॥७॥
ततः कालपरीतः स वैरस्योद्धुक्षणे रतःप्रतीपकारी युष्माकमिति चोपेक्षितो मया ॥८॥
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणःउवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ॥९॥
भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम्शशाप च महातेजाः सर्वलोकेषु च स्त्रियःन गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः ॥१०॥
स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथास्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः ॥११॥
ततः शोकपरीतात्मा सधूम इव पावकःनिर्वेदमकरोद्धीमान्राजा संतापपीडितः ॥१२॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 6

0
Adhyaya 6Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0