Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
इन्द्र उवाच
एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मःपाल्यो युष्माभिर्लोकसिंहैरुदारै;र्विपर्यये स्यादभावः प्रजानाम् ॥१॥
भुवः संस्कारं राजसंस्कारयोग;मभैक्षचर्यां पालनं च प्रजानाम्विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् ॥२॥
त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेतनित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते ॥३॥
बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्तिनित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः ॥४॥
सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात्चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च ॥५॥
सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम्स्वं स्वं धर्मं ये न चरन्ति वर्णा;स्तांस्तान्धर्मानयथावद्वदन्ति ॥६॥
निर्मर्यादे नित्यमर्थे विनष्टा;नाहुस्तान्वै पशुभूतान्मनुष्यान्यथा नीतिं गमयत्यर्थलोभा;च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ॥७॥
त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम्एतत्कर्म ब्राह्मणस्याहुरग्र्य;मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ॥८॥
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिवब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथंचन ॥९॥
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यतेकर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ॥१०॥
यो विकर्मस्थितो विप्रो न स सन्मानमर्हतिकर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ॥११॥
एते धर्माः सर्ववर्णाश्च वीरै;रुत्क्रष्टव्याः क्षत्रियैरेष धर्मःतस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे ॥१२॥
मान्धातोवाचयवनाः किराता गान्धाराश्चीनाः शबरबर्बराःशकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ॥१३॥
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशःब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥१४॥
कथं धर्मं चरेयुस्ते सर्वे विषयवासिनःमद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ॥१५॥
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मेत्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥१६॥
इन्द्र उवाच
मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिःआचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥१७॥
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिःवेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥१८॥
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि चदानानि च यथाकालं द्विजेषु दद्युरेव ते ॥१९॥
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्भरणं पुत्रदाराणां शौचमद्रोह एव च ॥२०॥
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छतापाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ॥२१॥
एतान्येवंप्रकाराणि विहितानि पुरानघसर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥२२॥
मान्धातोवाचदृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवःलिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ॥२३॥
इन्द्र उवाच
विनष्टायां दण्डनीतौ राजधर्मे निराकृतेसंप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ॥२४॥
असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथाआश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ॥२५॥
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीःउत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥२६॥
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिःतदा धर्मो न चलते सद्भूतः शाश्वतः परः ॥२७॥
परलोकगुरुं चैव राजानं योऽवमन्यतेन तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ॥२८॥
मानुषाणामधिपतिं देवभूतं सनातनम्देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ॥२९॥
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत्स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥३०॥
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ॥३१॥
भीष्म उवाच
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुःजगाम भवनं विष्णुरक्षरं परमं पदम् ॥३२॥
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघकः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ॥३३॥
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव चअन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥३४॥
आदौ प्रवर्तिते चक्रे तथैवादिपरायणेवर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥३५॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 65

0
Adhyaya 65Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0