Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यतेधर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान्विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥२॥
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान्अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥३॥
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य चअथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥४॥
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य चब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥५॥
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारतअर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥६॥
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठतिन स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥७॥
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजःअलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥८॥
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदःप्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥९॥
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥१०॥
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधिअशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥११॥
गोपायितारं दातारं धर्मनित्यमतन्द्रितम्अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥१२॥
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम्धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥१३॥
अपशास्त्रपरो राजा संचयान्नाधिगच्छतिअस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥१४॥
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनःकरैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥१५॥
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयःएवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥१६॥
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयःएवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥१७॥
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥१८॥
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षितानित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥१९॥
मालाकारोपमो राजन्भव माङ्गारिकोपमःतथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ॥२०॥
परचक्राभियानेन यदि ते स्याद्धनक्षयःअथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥२१॥
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनःअन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥२२॥
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतःसान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥२३॥
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन्स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥२४॥
धर्मेण व्यवहारेण प्रजाः पालय पाण्डवयुधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥२५॥
एष एव परो धर्मो यद्राजा रक्षते प्रजाःभूतानां हि यथा धर्मे रक्षणं च परा दया ॥२६॥
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाःयद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥२७॥
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाःराजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥२८॥
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन्दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥२९॥
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतःक्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥३०॥
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन्इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ॥३१॥
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डवअसंभवश्च धर्माणामीदृशानामराजसुतस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥३२॥
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन्इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥३३॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 72

0
Adhyaya 72Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0