Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
य एव तु सतो रक्षेदसतश्च निबर्हयेत्स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्पुरूरवस ऐलस्य संवादं मातरिश्वनः ॥२॥
ऐल उवाच
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयःकस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ॥३॥
वायुरुवाचब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तमबाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ॥४॥
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभवर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ॥५॥
ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायतईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥६॥
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम्द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥७॥
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ॥८॥
ऐल उवाच
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥९॥
वायुरुवाचविप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम्ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥१०॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चगुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥११॥
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम्आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ॥१२॥
एष ते प्रथमः कल्प आपद्यन्यो भवेदतःयदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ॥१३॥
यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत्श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ॥१४॥
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ॥१५॥
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक्श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ॥१६॥
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ॥१७॥
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठतितस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ॥१८॥
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताःसम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥१९॥
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताःचतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ॥२०॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाःयज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ॥२१॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथाराजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ॥२२॥
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छतिअग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ॥२३॥
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनःतेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ॥२४॥
अभयस्यैव यो दाता तस्यैव सुमहत्फलम्न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥२५॥
इन्द्रो राजा यमो राजा धर्मो राजा तथैव चराजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ॥२६॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 73

0
Adhyaya 73Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0