Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतःउभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥१॥
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितःराजा चैवंगुणो येषां कुशलं तेषु सर्वशः ॥२॥
उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन्यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥३॥
परस्परस्य सुहृदौ संमतौ समचेतसौब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ॥४॥
विमाननात्तयोरेव प्रजा नश्येयुरेव हब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥६॥
ऐल उवाच
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्मअन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति ॥७॥
कश्यप उवाच
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते हअन्वग्बलं दस्यवस्तद्भजन्ते;ऽबल्यं तथा तत्र वियन्ति सन्तः ॥८॥
नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्तेनैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः संत्यजन्ति ॥९॥
नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्तेअपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्संत्यजन्ति ॥१०॥
एतौ हि नित्यसंयुक्तावितरेतरधारणेक्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ॥११॥
उभावेतौ नित्यमभिप्रपन्नौ; संप्रापतुर्महतीं श्रीप्रतिष्ठाम्तयोः संधिर्भिद्यते चेत्पुराण;स्ततः सर्वं भवति हि संप्रमूढम् ॥१२॥
नात्र प्लवं लभते पारगामी; महागाधे नौरिव संप्रणुन्नाचातुर्वर्ण्यं भवति च संप्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति ॥१३॥
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षतिअरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥१४॥
अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत्आश्चर्यशो वर्षति तत्र देव;स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ॥१५॥
स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम्राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य ॥१६॥
पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषःपापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ॥१७॥
ऐल उवाच
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम्एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः ॥१८॥
कश्यप उवाच
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्तिवातोत्पातैः सदृशं रुद्रमाहु;र्दावैर्जीमूतैः सदृशं रूपमस्य ॥१९॥
ऐल उवाच
न वै वातं परिवृनोति कश्चि;न्न जीमूतो वर्षति नैव दावःतथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च ॥२०॥
कश्यप उवाच
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान्विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ॥२१॥
ऐल उवाच
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात्कस्य हेतोः सुकृतं नाम कुर्या;द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥२२॥
कश्यप उवाच
असंत्यागात्पापकृतामपापां;स्तुल्यो दण्डः स्पृशते मिश्रभावात्शुष्केणार्द्रं दह्यते मिश्रभावा;न्न मिश्रः स्यात्पापकृद्भिः कथंचित् ॥२३॥
ऐल उवाच
साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यःसाध्वसाधून्वातयतीह वायु;रापस्तथा साध्वसाधून्वहन्ति ॥२४॥
कश्यप उवाच
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्रप्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ॥२५॥
पुण्यस्य लोको मधुमान्घृतार्चि;र्हिरण्यज्योतिरमृतस्य नाभिःतत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ॥२६॥
पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एवतत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः ॥२७॥
मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्तिएवं ज्ञात्वा कार्य एवेह विद्वा;न्पुरोहितो नैकविद्यो नृपेण ॥२८॥
तं चैवान्वभिषिच्येत तथा धर्मो विधीयतेअग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ॥२९॥
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुःज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ॥३०॥
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ॥३१॥
अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हिब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ॥३२॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 74

0
Adhyaya 74Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0