महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · शान्ति पर्व
॥ श्रीः ॥
अध्याय 75
महाभारत · शान्ति पर्व
भीष्म उवाच
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यतेयोगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ॥१॥
यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युतदृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥३॥
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिःजिज्ञासमानः स्वबलमभ्ययादलकाधिपम् ॥४॥
ततो वैश्रवणो राजा रक्षांसि समवासृजत्ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ॥५॥
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपःगर्हयामास विद्वांसं पुरोहितमरिंदमः ॥६॥
तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमःरक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ॥७॥
ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत्वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥८॥
त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताःन चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ॥९॥
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाःआगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥१०॥
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसिकिं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥११॥
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्न्यायपूर्वमसंरब्धमसंभ्रान्तमिदं वचः ॥१२॥
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवापृथग्बलविधानं च तल्लोकं परिरक्षति ॥१३॥
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥१४॥
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम्तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप ॥१५॥
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥१६॥
नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिवप्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् ॥१७॥
मुचुकुन्द उवाच
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिवबाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥१८॥
भीष्म उवाच
ततो वैश्रवणो राजा विस्मयं परमं ययौक्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसंभ्रमम् ॥१९॥
ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुंधराम्बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥२०॥
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्ततेजयत्यविजितामुर्वीं यशश्च महदश्नुते ॥२१॥
नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियःतयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम् ॥२२॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0