Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणितेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥१॥
भीष्म उवाच
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनःएते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ॥२॥
ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताःएते देवसमा राजन्ब्राह्मणानां भवन्त्युत ॥३॥
ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकःएते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥४॥
अश्वारोहा गजारोहा रथिनोऽथ पदातयःएते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ॥५॥
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवःएते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥६॥
अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयःतान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ॥७॥
आह्वायका देवलका नक्षत्रग्रामयाजकाःएते ब्राह्मणचण्डाला महापथिकपञ्चमाः ॥८॥
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिःऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ॥९॥
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥१०॥
विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथंचननियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ॥११॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजःराज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ॥१२॥
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथाराजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः ॥१३॥
स चेन्नो परिवर्तेत कृतवृत्तिः परंतपततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ॥१४॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 77

0
Adhyaya 77Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0