Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामहकथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥१॥
भीष्म उवाच
प्रतिकर्म पुराचार ऋत्विजां स्म विधीयतेआदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ॥२॥
ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनःपरस्परस्य सुहृदः संमताः समदर्शिनः ॥३॥
येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम्अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥४॥
ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकःअकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥५॥
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हतिएते महर्त्विजस्तात सर्वे मान्या यथातथम् ॥६॥
युधिष्ठिर उवाच
यदिदं वेदवचनं दक्षिणासु विधीयतेइदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ॥७॥
नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतःआज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ॥८॥
श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिःमिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥९॥
भीष्म उवाच
न वेदानां परिभवान्न शाठ्येन न माययाकश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥१०॥
यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम्न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन ॥११॥
शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत्अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ॥१२॥
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिःतं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यतेतेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ॥१३॥
इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिःपुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत्अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥१४॥
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिःतानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥१५॥
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिःतत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥१६॥
अहिंसा सत्यवचनमानृशंस्यं दमो घृणाएतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥१७॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥१८॥
निबोध दशहोतॄणां विधानं पार्थ यादृशम्चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ॥१९॥
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥२०॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 80

0
Adhyaya 80Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0