Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारतयः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ॥१॥
ह्रियमाणममात्येन भृतो वा यदि वाभृतःयो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥२॥
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत्अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत ॥३॥
राजकोशस्य गोप्तारं राजकोशविलोपकाःसमेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥५॥
कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनिमुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ॥६॥
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनःपूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥७॥
अधीये वायसीं विद्यां शंसन्ति मम वायसाःअनागतमतीतं च यच्च संप्रति वर्तते ॥८॥
इति राष्ट्रे परिपतन्बहुशः पुरुषैः सहसर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् ॥९॥
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशःराजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥१०॥
तमेव काकमादाय राजानं द्रष्टुमागमत्सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥११॥
स स्म कौसल्यमागम्य राजामात्यमलंकृतम्प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥१२॥
असौ चासौ च जानीते राजकोशस्त्वया हृतःएवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥१३॥
तथान्यानपि स प्राह राजकोशहरान्सदान चास्य वचनं किंचिदकृतं श्रूयते क्वचित् ॥१४॥
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वहतमतिक्रम्य सुप्तस्य निशि काकमपोथयन् ॥१५॥
वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरेपूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥१६॥
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् ॥१७॥
मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतःअयं तवार्थं हरते यो ब्रूयादक्षमान्वितः ॥१८॥
संबुबोधयिषुर्मित्रं सदश्वमिव सारथिःअतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ॥१९॥
तथाविधस्य सुहृदः क्षन्तव्यं संविजानताऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥२०॥
तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत्कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥२१॥
ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसिकरिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ॥२२॥
मुनिरुवाचज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि चभक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ॥२३॥
प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम्अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ॥२४॥
आशीविषैश्च तस्याहुः संगतं यस्य राजभिःबहुमित्राश्च राजानो बह्वमित्रास्तथैव च ॥२५॥
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम्अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ॥२६॥
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौन तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता ॥२७॥
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम्अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ॥२८॥
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥२९॥
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात्दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ॥३०॥
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितःवैश्वानर इव क्रुद्धः समूलमपि निर्दहेत्इति राजन्मयः प्राह वर्तते च तथैव तत् ॥३१॥
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनःददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि ॥३२॥
वायसश्चैव मे राजन्नन्तकायाभिसंहितःन च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियःहिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव ॥३३॥
ये त्वादानपरा एव वसन्ति भवतो गृहेअभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥३४॥
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम्अन्तरैरभिसंधाय राजन्सिध्यन्ति नान्यथा ॥३५॥
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम्तैर्हि मे संधितो बाणः काके निपतितः प्रभो ॥३६॥
छद्मना मम काकश्च गमितो यमसादनम्दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा ॥३७॥
बहुनक्रझषग्राहां तिमिंगिलगणायुताम्काकेन बडिशेनेमामतार्षं त्वामहं नदीम् ॥३८॥
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम्दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ॥३९॥
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यतेराजदुर्गावतरणे नोपायं पण्डिता विदुः ॥४०॥
गहनं भवतो राज्यमन्धकारतमोवृतम्नेह विश्वसितुं शक्यं भवतापि कुतो मया ॥४१॥
अतो नायं शुभो वासस्तुल्ये सदसती इहवधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥४२॥
न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधःनेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः ॥४३॥
सीता नाम नदी राजन्प्लवो यस्यां निमज्जतितथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ॥४४॥
मधुप्रपातो हि भवान्भोजनं विषसंयुतम्असतामिव ते भावो वर्तते न सतामिवआशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ॥४५॥
दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुतानदी मधुरपानीया यथा राजंस्तथा भवान्श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥४६॥
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान्ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥४७॥
तेनैवोपेन्धनो नूनं दावो दहति दारुणःतथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥४८॥
भवतैव कृता राजन्भवता परिपालिताःभवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥४९॥
उषितं शङ्कमानेन प्रमादं परिरक्षताअन्तःसर्प इवागारे वीरपत्न्या इवालयेशीलं जिज्ञासमानेन राज्ञश्च सहजीविना ॥५०॥
कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताःकच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥५१॥
जिज्ञासुरिह संप्राप्तस्तवाहं राजसत्तमतस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ॥५२॥
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतःविद्यते कारणं नान्यदिति मे नात्र संशयः ॥५३॥
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम्अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् ॥५४॥
राजोवाचभूयसा परिबर्हेण सत्कारेण च भूयसापूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥५५॥
ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहेभवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् ॥५६॥
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम्तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥५७॥
मुनिरुवाचअदर्शयन्निमं दोषमेकैकं दुर्बलं कुरुततः कारणमाज्ञाय पुरुषं पुरुषं जहि ॥५८॥
एकदोषा हि बहवो मृद्नीयुरपि कण्टकान्मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥५९॥
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवःस्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ॥६०॥
राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम्मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः ॥६१॥
पितुः सखा च भवतः संमतः सत्यसंगरःव्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ॥६२॥
सर्वकामान्परित्यज्य तपस्तप्तं तदा मयास्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति ॥६३॥
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छयाराज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥६४॥
भीष्म उवाच
ततो राजकुले नान्दी संजज्ञे भूयसी पुनःपुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे ॥६५॥
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विनेमुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥६६॥
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम्तथा च कृतवान्राजा यथोक्तं तेन भारत ॥६७॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 83

0
Adhyaya 83Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0