Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाःप्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥१॥
भीष्म उवाच
व्यवहारेण शुद्धेन प्रजापालनतत्परःप्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ॥२॥
युधिष्ठिर उवाच
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपःएतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥३॥
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रतिनैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥४॥
भीष्म उवाच
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान्दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ॥५॥
किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम्वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि ॥६॥
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन्त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥७॥
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥८॥
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम्कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ॥९॥
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम्अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥१०॥
ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत्अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥११॥
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम्कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् ॥१२॥
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इवपरिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥१३॥
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेःहार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते ॥१४॥
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजःधर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ ॥१५॥
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाःआत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ॥१६॥
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ॥१७॥
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत्असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥१८॥
अपराधानुरूपं च दण्डं पापेषु पातयेत्उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ॥१९॥
विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवःसान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥२०॥
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्आजीवकस्य स्तेनस्य वर्णसंकरकस्य च ॥२१॥
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पतेयुक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ॥२२॥
कामकारेण दण्डं तु यः कुर्यादविचक्षणःस इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् ॥२३॥
न परस्य श्रवादेव परेषां दण्डमर्पयेत्आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा ॥२४॥
न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदिदूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥२५॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपःयो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥२६॥
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदःयथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥२७॥
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिताशिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥२८॥
धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत्मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ॥२९॥
कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितःएतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥३०॥
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितःवर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥३१॥
विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित्पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥३२॥
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघअविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥३३॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 86

0
Adhyaya 86Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0