Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
कथंविधं पुरं राजा स्वयमावस्तुमर्हतिकृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुनान्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ॥२॥
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतःश्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ॥३॥
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्सर्वसंपत्प्रधानं यद्बाहुल्यं वापि संभवेत् ॥४॥
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव चमनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् ॥५॥
यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम्दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम् ॥६॥
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताःधार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ॥७॥
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ॥८॥
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्शूराढ्यजनसंपन्नं ब्रह्मघोषानुनादितम् ॥९॥
समाजोत्सवसंपन्नं सदापूजितदैवतम्वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् ॥१०॥
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ॥११॥
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् ॥१२॥
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ॥१३॥
शणं सर्जरसं धान्यमायुधानि शरांस्तथाचर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् ॥१४॥
आशयाश्चोदपानाश्च प्रभूतसलिला वराःनिरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ॥१५॥
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताःमहेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ॥१६॥
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताःकुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु ॥१७॥
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान्नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ॥१८॥
बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम्चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ॥१९॥
चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतःअनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ॥२०॥
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ॥२१॥
ततस्तथा विधातव्यं सर्वमेवाप्रमादतःभक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता ॥२२॥
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडयाप्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ॥२३॥
कृपणानाथवृद्धानां विधवानां च योषिताम्योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ॥२४॥
आश्रमेषु यथाकालं चेलभाजनभोजनम्सदैवोपहरेद्राजा सत्कृत्यानवमन्य च ॥२५॥
आत्मानं सर्वकार्याणि तापसे राज्यमेव चनिवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ॥२६॥
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ॥२७॥
तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदितापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ॥२८॥
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत चन चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ॥२९॥
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरःअटवीष्वपरः कार्यः सामन्तनगरेषु च ॥३०॥
तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत्परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ॥३१॥
ते कस्यांचिदवस्थायां शरणं शरणार्थिनेराज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ॥३२॥
एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितःयादृशं नगरं राजा स्वयमावस्तुमर्हति ॥३३॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 87

0
Adhyaya 87Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0