Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामतेकथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
यथादेशं यथाकालमपि चैव यथाबलम्अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥२॥
यथा तासां च मन्येत श्रेय आत्मन एव चतथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ॥३॥
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत्वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥४॥
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपव्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ॥५॥
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ॥६॥
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत्मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥७॥
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाःउचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ॥८॥
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजःयथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ॥९॥
ततस्तान्भेदयित्वाथ परस्परविवक्षितान्भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ॥१०॥
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत्आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥११॥
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिताअनुपायेन दमयन्प्रकोपयति वाजिनः ॥१२॥
पानागाराणि वेशाश्च वेशप्रापणिकास्तथाकुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥१३॥
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाःएते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥१४॥
न केनचिद्याचितव्यः कश्चित्किंचिदनापदिइति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥१५॥
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिहसर्व एव त्रयो लोका न भवेयुरसंशयम् ॥१६॥
प्रभुर्नियमने राजा य एतान्न नियच्छतिभुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिःतथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ॥१७॥
स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनःकामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥१८॥
आपद्येव तु याचेरन्येषां नास्ति परिग्रहःदातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ॥१९॥
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवःइष्टादातार एवैते नैते भूतस्य भावकाः ॥२०॥
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाःते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ॥२१॥
दण्ड्यास्ते च महाराज धनादानप्रयोजनाःप्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ॥२२॥
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम्पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ॥२३॥
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितःसंशयं लभते किंचित्तेन राजा विगर्ह्यते ॥२४॥
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैःवक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ॥२५॥
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारतककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥२६॥
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव चतपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ॥२७॥
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिवसत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥२८॥
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसेसत्यार्जवपरो राजन्मित्रकोशसमन्वितः ॥२९॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 89

0
Adhyaya 89Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0