Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमःमान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥१॥
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमःतत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥२॥
उतथ्य उवाच
धर्माय राजा भवति न कामकरणाय तुमान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥३॥
राजा चरति वै धर्मं देवत्वायैव गच्छतिन चेद्धर्मं स चरति नरकायैव गच्छति ॥४॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठतितं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥५॥
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यतेदेवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥६॥
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यतेतदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥७॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥८॥
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयःन यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥९॥
वध्यानामिव सर्वेषां मनो भवति विह्वलम्मनुष्याणां महाराज यदा पापो न वार्यते ॥१०॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥११॥
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षतेयस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥१२॥
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥१३॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदातस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥१४॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयःअकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥१५॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवातस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥१६॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतःस राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ॥१७॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत्धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥१८॥
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदाब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥१९॥
तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ॥२०॥
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिःअथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥२१॥
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम्अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ॥२२॥
एतत्फलमसूयाया अभिमानस्य चाभिभोतस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥२३॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिःतेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥२४॥
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिवराजा भवति तं जित्वा दासस्तेन पराजितः ॥२५॥
स यथा दर्पसहितमधर्मं नानुसेवसेतथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥२६॥
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतःतदभ्यासादुपावर्तादहितानां च सेवनात् ॥२७॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतःपर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥२८॥
एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् ॥२९॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु चपरभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥३०॥
कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥३१॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यतितस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥३२॥
क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः ॥३३॥
अशीते विद्यते शीतं शीते शीतं न विद्यतेअवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ॥३४॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरेउत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥३५॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षतिप्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥३६॥
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरेकुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥३७॥
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठतेत्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥३८॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 91

0
Adhyaya 91Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0