Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
वामदेव उवाच
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपःजघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥१॥
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सतिन हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥२॥
यस्य स्फीतो जनपदः संपन्नः प्रियराजकःसंतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ॥३॥
यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताःअल्पेनापि स दण्डेन महीं जयति भूमिपः ॥४॥
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताःसधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥५॥
प्रभावकालावधिकौ यदा मन्येत चात्मनःतदा लिप्सेत मेधावी परभूमिं धनान्युत ॥६॥
भोगेष्वदयमानस्य भूतेषु च दयावतःवर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥७॥
तक्षत्यात्मानमेवैष वनं परशुना यथायः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥८॥
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतःक्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥९॥
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधःयत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥१०॥
नैनमन्येऽवजानन्ति नात्मना परितप्यतेकृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥११॥
इदंवृत्तं मनुष्येषु वर्तते यो महीपतिःउभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते ॥१२॥
भीष्म उवाच
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपःतथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥१३॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 95

0
Adhyaya 95Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0