Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
भीष्म उवाच
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिःअधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः ॥१॥
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव चसादयत्येष राजानं महीं च भरतर्षभ ॥२॥
विशीर्णकवचं चैव तवास्मीति च वादिनम्कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥३॥
बलेनावजितो यश्च न तं युध्येत भूमिपःसंवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥४॥
नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृताएवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् ॥५॥
न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयःयुञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् ॥६॥
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयतेनान्यो राजानमभ्यसेदराजन्यः कथंचन ॥७॥
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तराशान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ॥८॥
अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवःअप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि ॥९॥
या तु धर्मविलोपेन मर्यादाभेदनेन चतां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिःधर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् ॥१०॥
सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत्सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥११॥
भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताःअमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥१२॥
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदिसंदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥१३॥
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचनजीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः ॥१४॥
अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकःशुद्धं जीवितमेवापि तादृशो बहु मन्यते ॥१५॥
यस्य स्फीतो जनपदः संपन्नः प्रियराजकःसंतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥१६॥
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताःपूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते ॥१७॥
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमःअन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः ॥१८॥
भूमिवर्जं पुरं राजा जित्वा राजानमाहवेअमृताश्चौषधीः शश्वदाजहार प्रतर्दनः ॥१९॥
अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव चआजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥२०॥
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौअन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत ॥२१॥
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिरआसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥२२॥
सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिःन मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥२३॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 97

0
Adhyaya 97Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0