Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shanti Parva
युधिष्ठिर उवाच
के लोका युध्यमानानां शूराणामनिवर्तिनाम्भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ॥२॥
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम्ददर्श सुरलोकस्थं शक्रेण सचिवं सह ॥३॥
सर्वतेजोमयं दिव्यं विमानवरमास्थितम्उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ॥४॥
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीःऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥५॥
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधिचातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥६॥
ब्रह्मचर्येण घोरेण आचार्यकुलसेवयावेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥७॥
अतिथीनन्नपानेन पितॄंश्च स्वधया तथाऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥८॥
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधिउदीक्षमाणः पृतनां जयामि युधि वासव ॥९॥
देवराज सुदेवोऽयं मम सेनापतिः पुराआसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ॥१०॥
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयःतर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् ॥११॥
इन्द्र उवाच
एतस्य विततस्तात सुदेवस्य बभूव हसंग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥१२॥
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥१३॥
अम्बरीष उवाच
कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणाऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥१४॥
इन्द्र उवाच
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथाहवींषि परमांसानि रुधिरं त्वाज्यमेव च ॥१५॥
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणःआज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥१६॥
प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाःज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥१७॥
चापवेगायतस्तीक्ष्णः परकायावदारणःऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् ॥१८॥
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुःहस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे ॥१९॥
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैःशैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥२०॥
आवेगाद्यत्तु रुधिरं संग्रामे स्यन्दते भुविसास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ॥२१॥
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखेसामानि सामगास्तस्य गायन्ति यमसादने ॥२२॥
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्कुञ्जराणां हयानां च वर्मिणां च समुच्चयःअग्निः श्येनचितो नाम तस्य यज्ञे विधीयते ॥२३॥
उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यःस यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥२४॥
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताःव्याघुष्टतलनादेन वषट्कारेण पार्थिवउद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः ॥२५॥
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत्आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥२६॥
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखेभयान्न च निवर्तेत तस्य लोका यथा मम ॥२७॥
नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैःयस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥२८॥
यस्तु नावेक्षते कंचित्सहायं विजये स्थितःविगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥२९॥
यस्य तोमरसंघाटा भेरीमण्डूककच्छपावीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥३०॥
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वलाअश्वनागरथैश्चैव संभिन्नैः कृतसंक्रमा ॥३१॥
पताकाध्वजवानीरा हतवाहनवाहिनीशोणितोदा सुसंपूर्णा दुस्तरा पारगैर्नरैः ॥३२॥
हतनागमहानक्रा परलोकवहाशिवाऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा ॥३३॥
पुरुषादानुचरिता भीरूणां कश्मलावहानदी योधमहायज्ञे तदस्यावभृथं स्मृतम् ॥३४॥
वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यतेअश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥३५॥
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम्हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ॥३६॥
सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम्शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ॥३७॥
यदा तूभयतो व्यूहो भवत्याकाशमग्रतःसास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः ॥३८॥
यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैःअप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः ॥३९॥
यस्य शोणितवेगेन नदी स्यात्समभिप्लुताकेशमांसास्थिसंकीर्णा स गच्छेत्परमां गतिम् ॥४०॥
यस्तु सेनापतिं हत्वा तद्यानमधिरोहतिस विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः ॥४१॥
नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितःजीवग्राहं निगृह्णाति तस्य लोका यथा मम ॥४२॥
आहवे निहतं शूरं न शोचेत कदाचनअशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥४३॥
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम्हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥४४॥
वराप्सरःसहस्राणि शूरमायोधने हतम्त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ॥४५॥
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनःचत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥४६॥
वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजःतृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥४७॥
अहं वृत्रं बलं पाकं शतमायं विरोचनम्दुरावार्यं च नमुचिं नैकमायं च शम्बरम् ॥४८॥
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशःप्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥४९॥
भीष्म उवाच
इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य चयोधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥५०॥
End of chapter ॥
1
Mahabharata · Shanti Parva

Adhyaya 99

0
Adhyaya 99Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0