Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वरश्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥१॥
भीष्म उवाच
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम्कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥२॥
केन वृत्तेन कल्याणि समाचारेण केन वाविधूय सर्वपापानि देवलोकं त्वमागता ॥३॥
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसासुता ताराधिपस्येव प्रभया दिवमागता ॥४॥
अरजांसि च वस्त्राणि धारयन्ती गतक्लमाविमानस्था शुभे भासि सहस्रगुणमोजसा ॥५॥
न त्वमल्पेन तपसा दानेन नियमेन वाइमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ॥६॥
इति पृष्टा सुमनया मधुरं चारुहासिनीशाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥७॥
नाहं काषायवसना नापि वल्कलधारिणीन च मुण्डा न जटिला भूत्वा देवत्वमागता ॥८॥
अहितानि च वाक्यानि सर्वाणि परुषाणि चअप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥९॥
देवतानां पितॄणां च ब्राह्मणानां च पूजनेअप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ॥१०॥
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥११॥
असद्वा हसितं किंचिदहितं वापि कर्मणारहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥१२॥
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्आसनेनोपसंयोज्य पूजयामि समाहिता ॥१३॥
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दतिभक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥१४॥
कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तुप्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥१५॥
प्रवासं यदि मे भर्ता याति कार्येण केनचित्मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ॥१६॥
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥१७॥
नोत्थापयामि भर्तारं सुखसुप्तमहं सदाआतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥१८॥
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदागुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥१९॥
इमं धर्मपथं नारी पालयन्ती समाहिताअरुन्धतीव नारीणां स्वर्गलोके महीयते ॥२०॥
भीष्म उवाच
एतदाख्याय सा देवी सुमनायै तपस्विनीपतिधर्मं महाभागा जगामादर्शनं तदा ॥२१॥
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणिस देवलोकं संप्राप्य नन्दने सुसुखं वसेत् ॥२२॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 124

0
Adhyaya 124Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0