Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
उमोवाचउक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाःसर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥१॥
महेश्वर उवाच
ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिनालोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥२॥
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम्ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥३॥
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवापृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥४॥
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरःशिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥५॥
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनःत्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥६॥
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरःवृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ॥७॥
यजनं याजनं चैव तथा दानप्रतिग्रहौअध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ॥८॥
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनःदानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥९॥
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशःगृहस्थता विशुद्धानां धर्मस्य निचयो महान् ॥१०॥
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकःदाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥११॥
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथाअतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥१२॥
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथादीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥१३॥
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य चसत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥१४॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ॥१५॥
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयतेतमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥१६॥
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथापुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥१७॥
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥१८॥
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छताएकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥१९॥
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतःतस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥२०॥
सर्वभूतदया धर्मो न चैकग्रामवासिताआशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ॥२१॥
न कुण्ड्यां नोदके सङ्गो न वाससि न चासनेन त्रिदण्डे न शयने नाग्नौ न शरणालये ॥२२॥
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणःयुक्तो योगं प्रति सदा प्रतिसंख्यानमेव च ॥२३॥
वृक्षमूलशयो नित्यं शून्यागारनिवेशनःनदीपुलिनशायी च नदीतीररतिश्च यः ॥२४॥
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजःआत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥२५॥
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणापरिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥२६॥
न चैकत्र चिरासक्तो न चैकग्रामगोचरःयुक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥२७॥
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम्यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥२८॥
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकःहंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥२९॥
अतः परतरं नास्ति नाधरं न तिरोऽग्रतःअदुःखमसुखं सौम्यमजरामरमव्ययम् ॥३०॥
उमोवाचगार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वयाभाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ॥३१॥
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम्स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥३२॥
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम्तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥३३॥
एतं मे संशयं देव मुनिधर्मकृतं विभोसर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मेनिखिलेन मया पृष्टं महादेव यथातथम् ॥३४॥
महेश्वर उवाच
हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम्यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ॥३५॥
फेनपानामृषीणां यो धर्मो धर्मविदां सदातं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥३६॥
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम्अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥३७॥
एष तेषां विशुद्धानां फेनपानां तपोधनेधर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥३८॥
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डलेउञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥३९॥
मृगनिर्मोकवसनाश्चीरवल्कलवाससःनिर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥४०॥
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताःतपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥४१॥
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धयेद्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥४२॥
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाःसन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥४३॥
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधिसंप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥४४॥
सोमपानां च देवानामूष्मपाणां तथैव चउञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ॥४५॥
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथायज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥४६॥
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैःऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥४७॥
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियःकामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥४८॥
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम्सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥४९॥
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिःसर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥५०॥
निवृत्तिरुपभोगस्य गोरसानां च वै रतिःस्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥५१॥
फलमूलाशनं वायुरापः शैवलभक्षणम्ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥५२॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जनेअतीतपात्रसंचारे काले विगतभैक्षके ॥५३॥
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनःसत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥५४॥
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितःमित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥५५॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 129

0
Adhyaya 129Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0