Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
वैशंपायन उवाच
इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दनेभीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥१॥
निर्णये वा महाबुद्धे सर्वधर्मभृतां वरप्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥२॥
भीष्म उवाच
नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिःशृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ॥३॥
संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमःदृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥४॥
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनःनास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव चतदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ॥५॥
अथ चेन्मन्यसे चैकं कारणं किं भवेदितिशक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन चप्राणयात्रामनेकां च कल्पयानेन भारत ॥६॥
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम्हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ॥७॥
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथाअग्राह्यमनिबद्धं च वाचः संपरिवर्जनम् ॥८॥
युधिष्ठिर उवाच
प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाःशिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ॥९॥
भीष्म उवाच
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिःसंस्था यत्नैरपि कृता कालेन परिभिद्यते ॥१०॥
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताःततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥११॥
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाःधर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥१२॥
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयःपरमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च ॥१३॥
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौधर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च ॥१४॥
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिःआचारः कारणं चैव धर्मश्चैव त्रयं पुनः ॥१५॥
युधिष्ठिर उवाच
पुनरेवेह मे बुद्धिः संशये परिमुह्यतेअपारे मार्गमाणस्य परं तीरमपश्यतः ॥१६॥
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदिपृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥१७॥
भीष्म उवाच
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिःयद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥१८॥
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम्पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ॥१९॥
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचरजिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ॥२०॥
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयःअन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ॥२१॥
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्अजातशत्रो सेवस्व धर्म एष सनातनः ॥२२॥
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचितातामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ॥२३॥
प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरःन स प्रमाणतामर्हो विवादजननो हि सः ॥२४॥
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य चएतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥२५॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 147

0
Adhyaya 147Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0