Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
वैशंपायन उवाच
एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदातूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥१॥
धारयामास चात्मानं धारणासु यथाक्रमम्तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ॥२॥
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्यद्यन्मुञ्चति गात्राणां स शंतनुसुतस्तदातत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥३॥
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदातं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाःसह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥४॥
संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वैजगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ॥५॥
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिपनिःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ॥६॥
एवं स नृपशार्दूल नृपः शांतनवस्तदासमयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥७॥
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून्चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथायुयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ॥८॥
युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिःछादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥९॥
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौउष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ॥१०॥
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम्तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ॥११॥
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनःयाजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ॥१२॥
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपिकालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ॥१३॥
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम्अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ॥१४॥
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाःजग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ॥१५॥
अनुगम्यमाना व्यासेन नारदेनासितेन चकृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥१६॥
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनःविधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥१७॥
ततो भागीरथी देवी तनयस्योदके कृतेउत्थाय सलिलात्तस्माद्रुदती शोकलालसा ॥१८॥
परिदेवयती तत्र कौरवानभ्यभाषतनिबोधत यथावृत्तमुच्यमानं मयानघाः ॥१९॥
राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन चसत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥२०॥
जामदग्न्येन रामेण पुरा यो न पराजितःदिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥२१॥
अश्मसारमयं नूनं हृदयं मम पार्थिवाःअपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ॥२२॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरेविजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ॥२३॥
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चनहतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥२४॥
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मनापीडितो नातियत्नेन निहतः स शिखण्डिना ॥२५॥
एवंविधं बहु तदा विलपन्तीं महानदीम्आश्वासयामास तदा साम्ना दामोदरो विभुः ॥२६॥
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शनेगतः स परमां सिद्धिं तव पुत्रो न संशयः ॥२७॥
वसुरेष महातेजाः शापदोषेण शोभनेमनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ॥२८॥
स एष क्षत्रधर्मेण युध्यमानो रणाजिरेधनंजयेन निहतो नैष नुन्नः शिखण्डिना ॥२९॥
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणेन शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥३०॥
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभाननेन शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ॥३१॥
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम्वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥३२॥
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरात्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥३३॥
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाःअनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥३४॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 154

0
Adhyaya 154Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0