Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Anushasana Parva
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारदश्रुतं मे महदाख्यानमिदं मतिमतां वर ॥१॥
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृपकथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि ॥२॥
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितःइत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ॥३॥
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥४॥
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतःतस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥५॥
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारतमाहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥६॥
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकःसत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥७॥
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिःधनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥८॥
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवःमहाभागो महातेजा महासत्त्वो महाबलः ॥९॥
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवःधर्मात्मा कोशवांश्चापि देवराज इवापरः ॥१०॥
सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयःदुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ॥११॥
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिःदुर्योधनो नाम महान्राजासीद्राजसत्तम ॥१२॥
तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनःविषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ॥१३॥
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैःनगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ॥१४॥
न तस्य विषये चाभूत्कृपणो नापि दुर्गतःव्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ॥१५॥
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियःधर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥१६॥
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरःन चावमन्ता दाता च वेदवेदाङ्गपारगः ॥१७॥
तं नर्मदा देवनदी पुण्या शीतजला शिवाचकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ॥१८॥
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचनानाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥१९॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिरदुर्योधनसुता यादृगभवद्वरवर्णिनी ॥२०॥
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ॥२१॥
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवःन दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥२२॥
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनःततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ॥२३॥
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाःयेन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥२४॥
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतःभवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥२५॥
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभनियता वाग्यताश्चैव पावकं शरणं ययुः ॥२६॥
तान्दर्शयामास तदा भगवान्हव्यवाहनःस्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥२७॥
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥२८॥
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥२९॥
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥३०॥
प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम्नित्यं सांनिध्यमिह ते चित्रभानो भवेदितितमाह भगवानग्निरेवमस्त्विति पार्थिवम् ॥३१॥
ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोःदृष्टं हि सहदेवेन दिशो विजयता तदा ॥३२॥
ततस्तां समलंकृत्य कन्यामहतवाससम्ददौ दुर्योधनो राजा पावकाय महात्मने ॥३३॥
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम्विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥३४॥
तस्या रूपेण शीलेन कुलेन वपुषा श्रियाअभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ॥३५॥
तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनःशिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ॥३६॥
अथौघवान्नाम नृपो नृगस्यासीत्पितामहःतस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥३७॥
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम्सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥३८॥
स गृहस्थाश्रमरतस्तया सह सुदर्शनःकुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥३९॥
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभोप्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ॥४०॥
तामथौघवतीं राजन्स पावकसुतोऽब्रवीत्अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन ॥४१॥
येन येन च तुष्येत नित्यमेव त्वयातिथिःअप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥४२॥
एतद्व्रतं मम सदा हृदि संपरिवर्ततेगृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ॥४३॥
प्रमाणं यदि वामोरु वचस्ते मम शोभनेइदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥४४॥
निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघेनातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥४५॥
तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिःन मे त्वद्वचनात्किंचिदकर्तव्यं कथंचन ॥४६॥
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम्पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥४७॥
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शनेअतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥४८॥
आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनिप्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ॥४९॥
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनीविधिना प्रतिजग्राह वेदोक्तेन विशां पते ॥५०॥
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातयेप्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥५१॥
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम्त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ॥५२॥
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतःप्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥५३॥
तथा संछन्द्यमानोऽन्यैरीप्सितैर्नृपकन्ययानान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ॥५४॥
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितःतथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥५५॥
ततो रहः स विप्रर्षिः सा चैवोपविवेश हसंस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥५६॥
अथेध्मान्समुपादाय स पावकिरुपागमत्मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥५७॥
ततस्त्वाश्रममागम्य स पावकसुतस्तदातामाजुहावौघवतीं क्वासि यातेति चासकृत् ॥५८॥
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदाकराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥५९॥
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव चतूष्णींभूताभवत्साध्वी न चोवाचाथ किंचन ॥६०॥
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनःक्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥६१॥
पतिव्रता सत्यशीला नित्यं चैवार्जवे रताकथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥६२॥
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् ॥६३॥
अनया छन्द्यमानोऽहं भार्यया तव सत्तमतैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ॥६४॥
अनेन विधिना सेयं मामर्चति शुभाननाअनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ॥६५॥
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात्हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥६६॥
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरात्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥६७॥
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा ममगृहस्थस्य हि धर्मोऽग्र्यः संप्राप्तातिथिपूजनम् ॥६८॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छतिनान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥६९॥
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसुअतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥७०॥
निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम्तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥७१॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥७२॥
नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताःसुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥७३॥
यथैषा नानृता वाणी मयाद्य समुदाहृतातेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥७४॥
ततो नादः समभवद्दिक्षु सर्वासु भारतअसकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ॥७५॥
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजःवपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ॥७६॥
स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन्उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥७७॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघप्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥७८॥
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छतिरन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥७९॥
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तमपतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥८०॥
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथाअधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥८१॥
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनीपावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥८२॥
अर्धेनौघवती नाम त्वामर्धेनानुयास्यतिशरीरेण महाभागा योगो ह्यस्या वशे स्थितः ॥८३॥
अनया सह लोकांश्च गन्तासि तपसार्जितान्यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ॥८४॥
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसेनिर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥८५॥
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवःगृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥८६॥
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलःतव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ॥८७॥
भीष्म उवाच
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम्युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ॥८८॥
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च चबुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥८९॥
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वैऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥९०॥
अतिथिः पूजितो यस्य ध्यायते मनसा शुभम्न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥९१॥
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ॥९२॥
एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम्यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ॥९३॥
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ॥९४॥
य इदं कथयेद्विद्वानहन्यहनि भारतसुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥९५॥
End of chapter ॥
1
Mahabharata · Anushasana Parva

Adhyaya 2

0
Adhyaya 2Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0